पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

क्रमोऽयमपरो भवेद् रुचिरमेकमार्ग द्वयो

स्ततोऽङ्गमनुभिर्न्यंसेद् विहितहतिदिग्बन्धनः ॥ २० ॥

ॐ रक्ष मां दक्षिणामूर्ते ! वीरभद्र! नमोऽस्तु ते । ___
त्वत्पादसेवान् रक्ष. त्वं सदास्मान् भक्तवत्सल ! ॥ २१ ॥
अनेन शयनासने गमनयोस्तथावश्यके

पुरो जपतु साधकः स्वतनुमन्त्ररक्षाकृते ।

द्युमध्यजलतर्पणादुषसि च भ्रमं नाशये

न्मनोर्जपकृतः स चेच्छुचिरिहोत्तरः साधकः ॥ २२ ॥

अथार्चनविधौ स्मरेद् धनददिङ्मुखः स्फाटिकं ___

पयोजलधिमध्यतः कमलपण्डगं मण्डपम् ।

हिरण्यहरिपीठगं विकसितं सितं मातृका

सरोजमधिकर्णिकं स्फुटविकीर्णसत्केसरम् ॥ २३ ॥

निजाङ्गकलितार्घ्यतो गगनपद्मचन्द्रामृतैः

स्वमस्तकमथाश्रयं यजनवस्तुजातं क्रमात् । निरीक्ष्य समवोक्ष्य तद् यमजलार्थनाथेन्द्रगा स्त्वचा मृगरिपोर्बृसीरुपरि पद्मसंस्थान् यजेत् ॥ २४ ॥

क्रमेण चतुरस्त्विमान् प्रकृतवक्ष्यमाणाकृतीन्

सदक्षिणशिवं गुरुं तदनु कृत्तिवस्त्रं गणम् ।

शरच्छशधरद्युतिं त्रिनयनं जटामौलिकं

शशाङ्ककृतशेखरं कलितयोगपट्टासनम् ॥ २५ ।। अधो वटतरोर्वृत्तं मुनिभरेण टङ्कान्वितं सबोधजपमालिकं नमत दक्षिणामूर्तिकम् ।

गुरुं परमकं गुरुं च परमेष्ठिसंज्ञं गुरुं

स्वपूज्यगुरुमन्त्रतो गुरुमनन्तपूज्याह्वयम् ॥ २६ ॥ समाधिनिरतानिमान् नमत शुक्लगन्धाम्बरान् गणाष्टकविभावितान् सकलवेद्यपारङ्गतान् । १. 'ग' क. ख. पाठः. २. 'गे' ख. पाठः.