________________
दसाक्षरीवागीश्वरीविधानम्] पूर्वार्धे अष्टादशः पटलः।
गलचिशकलैः समैः सुरभिदुग्धदूर्वाङ्कुरै
र्हुतैस्तु सकलामयांस्तिलयुतैस्तु मृत्युं जयेत् ।
यदिष्टमिह मानसं तदखिलं जपध्यानतः
प्रसिध्यति निजैक्यतो यजतु हंसवागीश्वरीम् ॥ १५ ॥
किमत्र बहुवर्णितैस्त्रिपुरया तु यत् साध्यते
यदिष्टमनयाप्यलं निखिलमश्नुते विद्यया । अतस्तु विनियोगतः खलु समानयुक्तं फलं
ननु त्रिभुवनोदरे न तदिहास्त्यसाध्यं द्वयोः ॥ १६ ॥
हंसवागीश्वरीविधानम् । जलात्रिसलिलात्रयस्तदनु चापि वाग्वादिनी त्युदीर्य ठयुगान्वितो मनुरयं दशार्णो गिरः । ऋषिस्तु धिषणो भवेदपि परे तु कण्वं विदु र्विराजमपि देवतां विदुरथास्य वागीश्वरीम् ॥ १७ ॥ ओं हां वद ऋग्वेद हृदयाय नमः । ओं हीं वद यजुर्वेद शिरसे स्वाहा। ओं हूं. वाक् सामवेद शिखायै वषट् । ओं हैं वादिनि अथर्ववेद कवचाय
हुम् । ओं हौं षडङ्ग नेत्रत्रयाय वौषट् ।
ओं हः इतिहासपुराणशास्त्र स्वाहा अस्त्राय फट् । . षङ्गङ्गलमनवस्त्वमी गुरुवरेण सन्दीक्षितः स्वकर्मकरणे रतो धवलगन्धमाल्याम्बरः । व्रतोचितमिताशनः कथितशस्तदेशासनः पुरश्चरणसिद्धये जपतु पङ्क्तिलक्षं मनुम् ॥ १८ ॥
मनोः प्रथममक्षरं हृदि निविष्टतारं न्यसेत्
कनासिकमुखानि दृग्गलकुचोरुजान्वङ्घ्रयः ।
तथोदरमुदीरितं नवममेषु शिष्टाक्षरं
न्यसेद्धृदयपङ्कजे पुनरपि न्यसेत् तारकम् ॥ १९ ।।
शिरोनयनकर्णयोर्युगलके च नासापुटे
मुखे च हृदये क्रमाञ्चरणयोर्दशार्णान् न्यसेत् । तो जयत ख. पाठः, २. वि' ग. पाठ:.