________________
ईशानशिवगुरुदेवपद्धतौ मित्रपादः
वसून् सुरपतौ यमे त्रिनयनान् जले भास्करान् । शशाङ्कदिशि विश्वकान् यजतु चाथं लोकाधिपां
स्तदस्त्रमयदेवताः प्रणवनामहृत्पूर्वकम् ॥ ८ ॥
गन्धादिभिर्यजेदिति यावत् ।
त्रतोचितमिताशनो धवलगन्धमाल्याम्बरः पुरश्चरणकं जपेत् तरणिलक्षमक्षस्रजा । पलाशकुसुमैः सितैः सरसिजैश्च जात्युत्पलैः सुगन्धिनवसर्पिषा च जुहुयात् तु लक्षं पृथक् ॥ ९ ॥
ततः सकलसिद्धिभाग् भवति सिद्धवागीश्वरः
स साधकवरः स्फुटं त्रिभुवनैकसम्पत्पदम् ।
जपेत् प्रतिदिनं तथा घृतपयोहुतं शक्तितो
निजैक्यमभिचिन्त्य तां विजयते ह वादे परान् ॥ १० ॥
प्रतप्तकनकप्रभां त्रिनयनां सपाशाङ्कुशां
सखड्गकुलिशाम्बुजां त्रिशिखवर्यहस्तां शिवाम् ।
धृताभयवरप्रदां स्मरतु राज्यलक्ष्म्याप्तये
स्मरेद् भुवनमोहिनीं भगवतीं जपापाटलाम् ॥ ११ ॥
निजैक्यमरुणत्विषं करयगक्कणदल्लकीं
संपाशमथ चाङ्कुशं कलशमक्षमालां करैः
विचित्रमाणभूषणां तु दधतीं गिरं चिन्तये
ज्जपादिषु वशीकरं तदिदमिष्टमाकर्षयेत् ॥ १२ ॥ श्रियं कमलबिल्वकैर्मधुरदुग्धसेकैस्तथा, __ नृपं च वशयज्जनं कमलबन्धुजीवैर्हतैः ।
स्त्रियं लवणतण्डुलैर्द्विजवरांश्च कुन्दोत्पलै
र्विशोऽपि सगुलैस्तिलैर्मधुतिलैस्तु शूद्रादिकान् ॥ १३ ॥ हुतैर्विषविभीतकैररिविनाशविद्वेषणं समिद्भिरथ तद्दलैररिविकायसंस्तम्भनम् ।
भवेत् सविपराजिकैर्विषसमिधुतैर्मारणं
प्रचाटयतु राजिकैश्चरणपांसुयुक्तैर्द्विषः ॥ १५ ॥