पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथाष्टादशः पटलः । अथोदितविशेषतस्त्रिपुरहंसवागीश्वरी सबिन्दुगगनं भृगुः पृथगुपोढबालाक्षरैः । इयं भुवन मोहिनी भवति विश्ववाग्भूतये मुनिस्तु कमलासनस्तदनु चोष्णिगुक्ता च वाक् ॥ १ ॥ मुखे नयननासयोरधरवक्रवृते च के श्रवस्यपरके मुखे च हृदयेऽपि नाभौ क्रमात् । न्यसेदखिलविग्रहे शिरसि चेति बिन्दुस्वरान् ओं हंसः कं खं गं घं ऊं हृदयाय नमः । ॐ हं सः चं छं जं झं ञं शिरसे ठठ । ओं हंसः टं ठं डं ढं णं शिखायै वषट् । ओं हंसः तं थं दं धं नं कवचाय हुम्' । ओं हं सः पं फं बं भं मं अस्त्राय फट् । इहाङ्गरचनोदिता भवति बद्धदिग् यादिभिः ॥ २ निजाङ्गमनुमूलतः स्नपितविग्रहेष्टासनः पयोनिधिपुरक्षितौ स्मरत दिव्यसिद्धाश्रमम् । शशाङ्कमणिमण्डपे रजततारसिंहासने महाम्बुरुहमुल्लसत्रिगुणमेरुसत्कर्णिकम् ॥ ३ ॥ मेरुरूपायै कर्णिकायै नमः । नमोऽन्तमथ केसरान्ं कुलगिरीन्द्रतत्त्वान् यजेत्

कुलपर्वतात्मकेभ्यः केसरेभ्यो नमो नमः ।

तथैव जगतीच्छदैः प्रथितवर्षशैलात्मकान् । वर्षपर्वतात्मकेभ्यो दलेभ्यो नमो नमः । • बहिर्धरणिमण्डलं जलनिधींश्च सप्तार्चयेत् तथैव दिशि चण्डिकां गणपतिं गुरुं क्षेत्रपम् ॥ ४ ॥ निजाङ्गवृतिरादितस्तु पुरतोऽथ रुद्रोऽम्बुजे

तथोपरि चतुर्मुखः कमलगस्त्वधो वासुकिः ।

'घिपरिक्षि' ग. पाठः. २. 'ले' क. पाठः ३. 'द्रा' ग. पाठः.