पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः

आत्मविद्याशिवैस्तत्त्वैः पृथग् प्राग्वन्नमोन्तकम् । 

जपाद्यन्ते जपं कुर्याज्जपरक्षाकरो विधिः ॥ ६१ ॥

स्फटिकाक्षावली शस्ता जप्येषु त्रैपुरेषु वै ।
जपं चाप्यमृताम्भोभिर्मनसास्यै समर्पयेत् ॥ ६२ ॥
ततः स्तवमिमं ध्येयमन्त्रसारमुदीरयेत् ।
शतह्रदाकदम्बवल्लसद्युतिं तनीयसीं

मृणालतन्तुकोमलां त्रिलिङ्गबिम्बनिर्गताम् ।

ससर्गबिन्दुनादकान् क्रमादतीत्य तत्पदाद् ।

द्रवत्सुधारसाप्लुतां सुनिष्कलां नुमो गिरम् ॥ ६३ ।। सुधाम्बुधौ सितावनौ च चन्द्रकान्तमण्डपे शशाङ्कबिम्बपङ्कजे तु गौरवर्णबालिकाम् ।

सबोधमुद्रपुस्तकां सकुम्भजप्यमालिकां

सिताम्बरादिभूषितां सितावृतिं नुमो गिरम् ॥ ६४ ॥

हिमाश्रमेऽष्टमातृभिश्च मातृकाम्बुजासनां ___ 

शशिप्रभां वराभयां तथा धृताब्जपुस्तकाम् ।

सविघ्नराजषण्मुखां सदक्षिणेशदेशिका ___ 

सभैरवां त्रिलोचनां कपर्दिनी नुमो गिरम् ॥ ६५ ॥ निजैक्यतोऽरुणत्विषं प्रतप्तहेमकुण्डलां विचित्रभूषणाम्बरां स्थितां सकल्पकाम्बुजे ।

सपाशमङ्कुशं करैर्वराभये च बिभ्रतीं

सशङ्खपद्मशेवधिं विभूतये नुमो गिरम् ॥ ६६ ॥

ललाटपद्मवाग्भवे सुरेन्द्रचापदीधितिं

शिरस्यथेन्दुमण्डले समन्मथां सितद्युतिम् । रविप्रभां हृदम्बुजे हि सौरबिम्बमध्यगां पृथग् विभाव्य भुक्तये च मुक्तये नुमो गिरम् ॥ ६ ॥ .. 'त', २. 'न' ख. पाठः.