________________
३९९ ईशानशिवगुरुदेवपद्धती बाह्यमाभ्यन्तरं वाथवा षण्मासाद् विपद्यते । अरुन्धती स्वजिह्वाग्रं नासाग्रं तु ध्रुवो भवेत् ॥ १३५ ॥
सुवर्णरूप्यरक्ताभं विण्मूत्रच्छर्दितानि वा ।
पश्येद् गन्धर्वनगरं तस्यायुर्वत्सरादधः ॥। १३६ ।। [मन्त्रपादः अनभ्रे विद्युतं पश्येत् सलिले चे (नान्द्र)कार्मुकम् । प्रेतान् वा दिवसे पश्येत् तस्यार्वाग् वत्सरान्मृतिः ॥ १३७ ॥ स्व हेममयान् वृक्षान् दृष्ट्वा मासं स जीवति | स्वं रूपं दर्पणे वाप्सु विकृतं शवगन्धि वा ॥ १३८ ॥
अकारणं वा प्रपतन्मासार्धं तस्य जीवितम् । स्वच्छायागलदेशे तु न्यस्य दृष्टि चिरं ततः ॥ १३९ ॥
व्योम्नि छायानरं दृष्ट्वा संपूर्णा सुखी नरः । शिरोहीनं तु षण्मासाद्धस्तहीनं तु वत्सरात् ॥ १४० ॥
कृतमण्डलके पात्रे गोमयाम्भोभिपूरिते ।
दृष्ट्वार्कबिम्बे याम्याप्ये सौम्येन्द्राशासु खण्डिते ॥ १४१ ॥
षद्वित्रिमासैर्मरणं मध्यच्छिद्रे दशाहतः ।
धूम्रायते तद्दिवसे निरूप्यैतद् विचक्षणः ॥ १४२ ॥ सुयुद्धं वाथवा गङ्गां पुण्यक्षेत्रं तु वा विशेत् ।
पिधाय कर्णौ सुदृढं तद्घोषं न शृणोति यः ॥ १४३ ॥
प्रनष्टदीपगन्धं च न जानाति यदा नरः ।
कनीनिकावमर्दोत्थां खद्योताभां तनुंप्रभाम् ॥ १४४ ॥ न पश्यति यदा तस्य मासमात्रं हि जीवितम् ।
ज्ञात्वैवमायुषो मानं पुत्रादिभ्यो विभज्य तु ॥ १४५ ॥ दानादि दत्त्वा संन्यस्य महाप्रस्थानिको ऽथवा ।
सर्वथा दानधर्माद्यं कृत्वा सुगतिमश्नुते ॥ १४६ ॥ स्वल्पं यदायुर्मर्त्यानामायुषो वृद्धये बुधः ।
प्रयतेत यतो जीवंश्चिरं भद्राणि पश्यति ॥ १४७ ॥ १. 'स', २. 'तुं', ३. 'स' ख. पाठः ४. 'बनू बी' ग. पाठः.