पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३९० ईशानशिवगुरुदेवपद्धत [मन्त्रपादः ओम् ऽस्तु ते तेन बद्धेन बद्धासि विष्ठात्रैव तु मा ग (तः तिः) । इति रक्तसूत्रेण बन्धयेत् । सुप्रभे ठठ । तण्डुलधान्यमुष्टिं प्रक्षिप्य । श्वेतपुष्पे ! महानीले ! शुभे । चन्दनगन्धिनि | ॥ ११६ ॥ त्वामोषधिं प्रपद्येऽहं त्राहि मां महतो भयात् । मा उ ( प त्य ) तेर्मा निपतेर्मा च तेजो व्यतिक्रमेत् ॥ ११७ ॥

अत्रैव तिष्ठ कल्याणि ! मम कार्यकरी भव ।

मम कार्ये कृते पश्चात् स्वर्गलोकं गमिष्यसि ।। ११८ ।।

राक्षसानां पिशाचानां गन्धर्वाणां महौजसाम् ।

तेषां बध्नामि चक्षूंषि ये चान्ये परिपन्थिनः ॥ ११९ ॥ गण्डे मुरिते मालिनि चण्डिके गदापाणिनि स्तम्भिनि मोहिनि नमो- ठठ । एवं तामोषधिं मन्त्रैरुपस्थाय ततः खनेत् । अमुकोपरि ठठ । अनेन निखनेद् भूमिम् ओं नमः सर्वौषधीभ्यः । ऊर्जावन्तो भविष्यथ ॥ १२० ॥ स्ववीयैः कृत्स्नी कुरुध्वं दुरितानि हन दह पच मारय ( स ) नमस्तुभ्यं नमः इति गृह्णीयात् । अनेन तु विधानेन गृह्णीयादोषधि बुधः । तच्छक्तिरन्यथा स्वल्पा भवेद् दैत्यादिभिर्हृते ॥ १२१ ॥ एका वाप्योषधिः सम्यग् गृहीता मिश्रिता परैः ।

औषधैर्यच्छति बलमन्तरायाश्च रक्षति ॥ १२९ ॥

शस्त्रवारणाधिकारः । १. 'ल', २. 'दावर्णिनि' ग. पाठः,