पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

હૈદ્ધ ईशान शिवगुरुदेवपद्धतौ वज्री लाङ्गलिका दन्ती त्रिशूली श्रीश्व मोहिनी । राजमोहिनिका काकभक्ष्या प्रतिपदादिषु ॥ ९६ ॥ [मन्त्रपाद: ब्रह्माण्यादिक्रमादात्ता पृथक् पिष्टा हिमाम्भसा ।

समस्ता वा तनौ लिम्पेद् युद्धकालेऽस्त्रवारिणी ॥ ९७ ॥
नमो भगवद्भ्यः सर्वास्त्रविसर्गेभ्यो मां रक्षन्तु भगवन्तः ! ठठ ।
लक्षजाप्येन मन्त्रोऽयं साधितः शस्त्रवारणः । 

चन्दनेन्दुजपाराजी विदारी कुष्ठकागरून् ॥ ९८ ॥ हिमाम्भसा समालिप्य तत्काले शस्त्रवारणम् ।

नागकेऽस्त्रि(?) शिखासूतं (जिंवी ! नीवा) राद्भिश्च वारयेत् ॥ ९९ ॥

नागो भूनागः । श्रीपर्णिमूलं प्राचीनं कृत्तिकात्तं शिरः स्थितम् ।

भुजबद्धं च शस्त्राणि वारयेन्नात्र संशयः ॥ १०० ॥
इन्द्रवल्ली शिफाशुङगे पिबेत् क्षीरेण मस्तके |

करे घृतं मृणालं वा श्वेतं क्षीरेऽस्ववारणम् ।। १०१ ॥ पीतमिति यावत् ! सितापराजितामूलं नन्द्यावर्ते मृणालकम् । भूतवृक्षस्य च शिफाौ सर्वे बस्ताम्बुपेषितम् ॥ १०२ ॥ तत्कालेऽङ्गप्रलेपेन सर्वशस्त्राणि वारयेत् । श्वेतपुङ्खाशिफास्यस्था बाणपातं निवारयेत् ॥ १०३ ॥ संमोहिनीशिफा तद्वत् खट्गपातं निवारयेत् । माबीजं दण्डभृच्चण्डो डान्तः सोष्ठोऽथ दंसनम् ॥ १०४ ॥ वाग्बीजमग्निजायान्तं रक्तसूतिनिवर्तकम् । जपित्वा वाणिशब्देन पानाच्च जपिताम्भसाम् ॥ १०५ ॥ १. 'ति' ग. पाठः २. 'रोस्यतम्' ३ 'खाः', ४. 'दा' स. पाठः.