पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८४ रिक्तापरार्धस्येति यावत् । ईशानशिवगुरुदेवपद्धतौ पूर्णाप्रथमषट्कस्य बर्हिकण्टक पिङ्गलाः । जलकाकः सारसश्च बालाद्यास्ते प्रदक्षिणम् ॥ ४७ ॥ तद्द्वितीयादिषट्कानां कण्टकोलकवायसाः ।. सारसश्चैव पूर्णाया बालाद्याः प्रोक्तकर्मभिः ॥ ४८ ॥ [मन्त्रपाद: पूर्णापरार्धाद्यषट्के पिङ्गलाश्येनबर्हिणः । सारसो जलकाकश्च बालाद्या व्युत्क्रमेण हि ॥ ४९ ॥ द्वितीयषट्कादिकानां पूर्णायाः कण्टकः शिखी | सारसो वायसश्चाद्या ज्ञेया बालादयः क्रमात् ॥ ५० ॥ यस्याभिधानाद्यर्णस्य पक्षी राज्यं करोति चेत् । . विजयो युधि वादे वा कुमारो मध्यमं फलम् ॥ ५१ ॥ बाले फलं स्यादधमं वृद्धे नाशो मृते मृतिः राज्ये श्रेष्ठफलं याने मध्यं भुक्तौ तथाधमम् ॥ ५२ ॥ स्वापे क्षयो मृतें मृत्युरेवं ज्ञेयं विचक्षणैः । सारसो बलवान् काकात् तस्माल्लूकस्ततः शिखी ॥ ५३ ॥ मयूरादू बलवान् इथेनस्त्वेवं विद्याद् बलाबलम् । मयूरश्येनकारण्डसारसा बलिनो दिवा ॥ ५४ ॥ उलूकस्तु बली रात्रौ सर्वे सन्ध्याबलाश्च ते । तिथीनां पूर्वभागस्तु दिवा रात्रिश्च पश्चिमः ॥ ५५ ॥ तत्तत्कालबलं ज्ञात्वा धीरो युद्धे प्रवर्तयेत् । पक्षिचारेण विज्ञेयं जीवितं मरणं रुजा || ५६ || लाभालाभागमापायकार्याकार्यं शुभाशुभम् । राजा राज्यं च सर्वत्र श्रेष्ठं यानकुमारकौ || ५७ || मध्यमौ भुक्तिवालौ चेदधमं प्रस्तुतं फलम् । स्वापे वृद्धे च तन्नाशो मृतौ च मरणे वधः ॥ ५८ ॥