पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

युद्धजैत्रकर्मादिविधिः] पूर्वार्धे द्विपञ्चाशः पटलः । जयाद्यषट्के कारण्डः सारसो बर्हिकण्टकौ । उलूकश्चैव बालाद्या मुक्तियानादिकर्माभिः ॥ ३५ ॥ जयाद्वितीयषट्के तु सारसो बर्हिकण्टकौ । • पिङ्गला जलकाकश्च बालाद्यास्ते स्वकर्मभिः || ३६ ॥ बर्हिणाद्यं तृतीयं तु चतुर्थं कण्टकादिकम् । पञ्चमं पिङ्गलाद्यं स्याज्जयायाः पृथगीरितम् ॥ ३७ ॥ जयापूर्वार्धस्य । जयापराधीद्यषट्के बहिसारसवायसाः । २ पिङ्गलाकण्टकौ चापि बालाद्याः कर्मभिः स्वकैः ॥ ३८ ॥ जयापरद्वितीयस्य सारसध्वांक्षपिङ्गलाः । कण्टकंश्च मयूरश्च बालाद्याः स्वस्वकर्मभिः ॥ ३९ ॥ जयापरतृतीयस्य कारण्डोलूककण्टकाः । बर्हिसारसकौ चापि बालाद्याः कर्मभिः स्वकैः ॥ ४० ॥ जयापरचतुर्थस्य पिङ्गलश्येनबर्हिणः । सारसश्चाथ कारण्डो बालाद्या भुक्तिपूर्वकैः ॥ ४१ ॥ जयापरशरांशस्य श्येनबर्हिणसारसाः । तद्वत् कारण्डकोलूकौ बालाधाः प्रोक्तकर्मभिः ॥ ४२ ॥ रिक्तायाः पूर्वषट्कस्य सारसः केकिकण्टकौ । उलूककाकौ बालाद्या भुक्तियानादिकर्मभिः ॥ ४३ ॥ मयूराद्यं द्वितीयं तु कण्टकाद्यं तृतीयकम् । लूककारण्डवाद्यौ तु रिक्तायाः शिष्टभागयोः ॥ ४४ ॥ बालाघा इति यावत् । रिक्तापरार्धषट्कस्य श्येनबर्हिणसारसाः । ध्वाङ्क्षोलकौ च विज्ञेयाः प्राग्वद् बालादिकर्मभिः ॥ ४५ ॥ रिक्तापरद्वितीयादिषट्कानां बर्हिसारसौ । कारण्डपिङ्गलाश्येना बालाद्या भुक्तिपूर्वकैः ॥ ४६ ॥ १. 'भू' ग्र, पाठ:. २. 'स्व: ॥ जयापरचतुर्थस्य', ३० रि' ख. पाठ:. 1