पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८२. ईशानशिवगुरुदेवपद्धतौ अशनं यानं राज्यं सुप्तिर्मरणं च पञ्चकर्मैषाम् । स्वस्याशाद्यं ज्ञेयं चक्रे शरकोष्ठके विहङ्गानाम् ॥ २४ ॥ नन्दायाः परभागे कारण्डोलूककण्टका: केकी । सारस्योऽपि च भुङ्क्ते याति च राज्ये स्वपत्यपि प्रमृतः ॥ २५ ॥ प्रथमषट्के । पश्चाद् द्वितीयषट्के लूकश्येनौ च केकिसारसकौ । कारण्डवश्च बालो युवा नृपो वार्धकी च मरणगतः ॥ २६ ॥ पश्चात् तृतीयषट्के श्येनो बर्ही च सारसध्वाङ्क्षौ । लूकश्च बालयौवननृपवृद्धमृताः क्रमेण ते विहगाः ॥ २७ ॥ पश्चाच्चतुर्थषट्के बर्ही बालो युवा तु सारसकः | कारण्डवस्तु नृपतिर्लूको वृद्धश्च कण्टकः प्रमृतः ॥ २८ ॥ पश्चात् पञ्चमषटके सारसबालो युवा तु कारण्डः | राजा पिङ्गलसंज्ञः श्येनो वृद्धो मृतो मयूरः स्यात् ॥ २९ ॥ भद्राद्ये पिङ्गलध्वाङ्क्षौ सारसः केकिकण्टकौ । बालो युवा नृपो वृद्धो मृतश्चैव प्रदक्षिणम् || ३० || तेषां कर्माण्यपि प्राग्वद् भुक्तिर्यानं च राजता । सुप्तिश्च मरणं चैवमन्येषां च समूहयेत् ॥ ३१ ॥ .कारण्डाद्यं द्वितीये तु सारसाद्यं तृतीयके । मयूराद्यं चतुर्थे तु कण्टकाद्यं तु पञ्चमे ॥ ३२ ॥ भद्रायां नाडिषट्कायामित्यर्थः । ? [मन्त्रपाद: भद्रापराद्यषट्के तु सारसध्वाङ्क्षपिङ्गलाः । श्येनश्च बर्हिणो ज्ञेया बालाद्यास्तु यथाक्रमम् ॥ ३३ ॥ द्वितीये जलकाकाद्यं तृतीये पिङ्गलादिकम् । चतुर्थे कण्टकाद्यं च मयूराद्यं च पञ्चमे ॥ ३४ ॥ अपरार्धषट्केण्वित्यर्थः । १. 'तत्राये' ग. पाठः .. २. 'भ', ३. 'णं तैल' स. पाठः,