पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कपोलं वापि सूच्या वा वेदना नैव जायते । शुण्ठीं चोलं च सचर्व्य तप्तलोहं लिहेत् सुखम् ॥ ५४ ॥ न दह्यत इत्यर्थः । कोशातकीतैलदीपो वायुना न विहन्यते । यावकारक्तसूत्रेण तैलार्द्रेण तु भाजनम् ॥ ५५ ॥ कांस्यमावेष्ट्य तु पचेत् पायसं नैव दह्यते । सूत्रं न दह्यते । तत्पायसोपयोगस्तु प्लिहाकार्मिलकापहः ॥ ५६ ॥

जयत्यन्यगजान् हस्ती पांर्ष्णेर्निजमदाञ्जनात् । 

चुचच्छुन्दरी चूर्णलिप्तपाणिं दृष्ट्वा गजो भयात् ॥ ५७ ॥

पलायति तदालाने लेपात् तस्माच्च धावति ।
तिल्वोपरि प्ररूढान्यवृक्षस्य फलका यदा ॥ ५८ ॥
महानसस्था तत्रस्थं भोज्यं तिक्तं करिष्यति ।

उद्घृते मोक्षः । जलकाकास्थियुगलमथनेऽग्निज्वलत्यपि ॥ ५९ ॥

जले च तिल्वक्षीराक्तं गन्धचूर्णं जलोषितम् । 

पलालपूलगृहादिष्विति यावत् । कुक्कुटस्य चे विट् तावत् पारावतमयूरयोः ॥ १० ॥

हेमपञ्चाङ्गचूर्णं च शिरस्युन्मत्तकृद् भवेत् ।

यस्य शिरसि क्षिप्तं, तमुन्मत्तं करोति । केशमुण्डनात् स्वस्थः । स्नुक्क्षीरतिलचूर्णाभ्यां पिष्टमर्कदले स्थितम् || ६.१ ॥ तत्पोलिकां वा जग्ध्वा तद्गृहाद् गच्छन्ति मूषिकाः ।

तालं च मार्जारमलं छागमूत्रेण पेषयेत् ॥ १२ ॥
तेनैव मूषिकापात् सर्वे गच्छन्ति मूषिकाः ।
गन्धकाङ्कोलतैलाभ्यां सिक्ते निस्सार केन्धने ।। ६३ ।
अतितप्ताज्यहोमेन स्वयं ज्वलति पावकः । 

सदाभद्राशिफावक्त्राश्चर्वयेद् धवलां शिलाम् ॥ ६४ ॥ १. 'चोष्णानिज क. पाठः