पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[मन्त्रपाद: ३७६ ईशान शिवगुरुदेव पद्धतौ जलप्रत्ययं कुर्वन् सदोषोऽपि जयति । शिशुमार मलालिप्तं मुष्ट्या चित्रं न दृश्यते । मुष्टिमोक्षाद् दृश्यते । स्योनाकबीजैरन्तस्थैस्तद्दारुकृपादुके ॥ ३२ ॥ आक्रम्य पर्यटेत् तोये निश्शङ्कस्तु यथासुखम् ।

निश्चलं चित्तमावेश्य सभ्रूमध्ये ललाटके ॥ ३३ ॥
सकुम्भकोत्तान तनुर्जले प्लवति नौरिव ।

बद्धपद्मासनश्च प्रसारितसर्वाङ्गो वा । तैलस्निग्धा यदा वर्तिः सर्जचूर्णविरूषिता ॥ ३४ ॥ अन्तर्बहिश्च तोयाढ्ये पात्रे ज्वलति दीपिका । स्नुक्क्षीरभाविता वर्ती तैलार्द्रा चाब्धिफेनवत् ॥ ३५ ॥ आपूर्यायसपात्रे तु सूतं तस्योपरि क्षिपेत् । दीप्ताङ्गारं तु तत्पात्रमाकाशे तिष्ठति स्फुटम् ॥ ३६ ॥

पिञ्छनालं तु सारं वा सूतापूर्ण विधाय तत् ।
तद्गर्भवर्तिस्तैलाक्ता ज्वलिता खे व्रजेत् स्वयम् ॥ ३७ ॥
ऋतुस्त्रीयोनिगर्भस्थं सौवीरं सप्तवासरम् ।

अग्निमध्ये क्षिपेत् तस्मिन् पुरुषो दृश्यते स्फुटम् ॥ ३८ ॥

बीजपूरकतैलं तु ताम्रपात्रे निधाय तु ।

धर्मे निधाय मध्याह्ने रथी सूर्योऽत्र दृश्यते ॥ ३९ ॥ अगस्तिपुष्पतोये तु भावितं बहुशोऽञ्जनम् । स्रोताख्यमञ्जितं नेत्रे दिवा नक्षत्रदर्शकम् ॥ ४० ॥ विद्युद्धततरोः कीलं क्षिप्तं खे तत्र तिष्ठति ।

किञ्चिच्चूर्णजलोपेतं भावि तैलं घृतं यथा ॥ ११ ॥
लघुलूताज्यसंसिक्तेपाणौ लोणजलं स्थितम् ।
विसृष्टं तत् पलालादौ दहत्यग्निश्च तद् दहेत् ॥ ४२ ॥
स्त्रीजरायुकृताद् धूपादालेख्यानि रुदन्ति हि ।

१. 'सु' क पाठः २. कः' म. पाठः ३. 'ल' क, पाठ::