पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३७४ ईशानशिवगुरुदेव पद्धतौ वर्तीः कृत्वा कृता दीपाः सर्वान् कुर्याद् दिगम्बरान् । धूपप्रदीपप्रयोगो रात्रावेव फलति । वत् । गोघृतेनात्मरक्षार्थं स्वनासान्तर्विरोपयेत् ॥ ११ ॥ नेत्रयोरञ्जयेद्वापि स्वयमन्यान् विमोहयेत् । [मन्त्रपादः वज्रीक्षीरेण बहुशस्तिलान् सम्भाव्य शोषितान् ॥ १२ ॥

ततैललेपात् कृष्णा ये केशाः शुक्ला भवन्ति ते ।
बहुशः पिप्पलीचूर्ण वज्रीक्षीरेण भावितम् || १३ ||
पिष्ट्वा सामलकं क्षिप्तं केशनाशनमुत्तमम् ॥

राजपुत्रीरजोऽश्वानां नासान्तःस्थं तु पातयेत् ॥ १४ ॥

तानश्वान् पातयतीति यावत् । चन्दनस्य पानात् प्रत्यायनम् ।
सुरतारब्धखरयोः कटकं पुच्छरोमभिः ।

आरोपितं प्रकोष्ठे तु लग्नं लिङ्गोन्नतिं वहेत् ॥ १५ ॥ क्षपणके शेफोत्थानमिति यावत् । अधो नीतं पातयति ।

सृगालभुक्तवदरीबीजानि सुरतस्थयोः ।

प्रारोपितानि (बालैः?) स्त्रीवस्त्रं पातयन्ति प्रकोष्ठके ॥ १६ ॥

प्रकोष्ठस्थिता बदरीमाला योषित्सन्निधौ ऊर्ध्वं नीता पातयतीति यावत्।

राजीतैलेऽर्कतूलेन दीपो मत्कुणकान् हरेत् । रात्रौ । स्थलकुम्भिशिफा शय्यागता मत्कुणकान् हरेत् ॥ १७ ॥ १. कुलीरस्य कपोले तु दीपस्तत्स्नेहसाधितः । गृहस्थान् मत्कुणान् सर्वानाकर्षयति च ध्रुवम् ॥ १८ ॥ अलक्त कार्कतूलाभ्यां वर्त्या राजीघृते कृतम् ।

मत्कुणोच्चाटकृद् रात्रौ करीराम्भस्तु यूकहृत् ॥ १९ ॥

सितापराजितामूल फलपुष्पेऽर्जुनस्य च । विलङ्गसर्जकं लाक्षा श्रीवासारुष्करैः पुरंम् ॥ २० ॥ 'रः ॥' ख. पाठ:.-