पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नर्मप्रकाराः ] पूर्वार्धे एकपञ्चाश: पटलः । यन्मुखोद्गीर्णताम्बूलं कृकलासस्य चर्मणि ।

भल्लातकसमुद्गस्थं मुखरोगकरं भवेत् ॥ ३ ॥

उद्घृते मोक्षः । शुक्तिसम्पुटचूर्णस्य लेपो भगनिरोधकृत् । कपर्द चूर्णगोतक्रक्षालनात् पूर्ववद् भवेत् ॥ ४ ॥

पिष्टाधोमुखगोशृङ्गलेपो योनिनिरोधकृत् ।
ऊर्ध्वमुखशृङ्गलेपाद् भोग्या भविष्यति ।

रक्तेन कृकलासस्य सिक्तसूत्रस्य लङ्घनात् ॥ ५ ॥

रक्तस्रावो भवेत् स्त्रीणां द्विमुखाहेश्च शोणितात् ।

तत्सूत्रं प्रक्षाल्य लखितं निवर्तयति । कृष्णकाकासृजा चूतपत्रे यन्नाम योजितम् || ६ || तस्यैव वर्चसि क्षिप्तं तं तुदन्ति मुहुर्द्विकाः । उदूधृत्य दग्धे मोक्षः । यस्याः स्वमोदकं मोदायुक्तो वृश्चिककण्टकः ॥ ७ ॥ मदनस्य फलस्थोऽस्या वराङ्गे तोदमावहेत् । उद्घृते मोक्षः । यति । मयूरमलदुर्धूरविषत्वग्लाङ्गलीयुतम् ॥ ८ ॥ महिषासृजि पिष्टं तदुधूमः सर्वास्तु मोहयेत् । १७३ डुण्डुकतैलेनालक्तकवर्तिदीपोऽपि तत्प्रभावलोकिनं जनं सर्व मोह- काकोलूकासृजा नाम ययोर्निम्बदलस्थितम् ॥ ९ ॥ तत्कोटरे तन्निहितं तयोर्वैरकरं भवेत् । महिषाश्चरक्तेनापि तथा । पुच्छ चूर्ण ब्रह्मसूनोर्जला हेर्वाप्यलक्तके ॥ १० ॥ 1. 'ज' क. पाठः. २. 'कोsपि' ख. पाठः.