पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे पञ्चाशः पटलः । शुद्धनागशिलांसूतान् सर्पाक्षीतोयपेषितान् । आलिप्यालिप्य घर्मे तु शुष्कान् प्रकृतिवासरम् ॥ ३१ ॥ ततः प्रकाशे विद्राव्य गोमयोन्मिश्रकाञ्चिके । निषिञ्चेत् सप्तवारं वा तारं भवति योजितम् ॥ ३२ ॥ मासमात्रं नृतोयस्थं सूतं भल्लाततैलतः । गृहधूमेन तैलेन गुलेनापि च खल्वके ॥ ३३ ॥ पेषयेत् तेन तारस्य पत्राण्यच्छानि लेपयेत् । दत्त्वा पुटत्रयं हेम्ना समं स्यात् काञ्चनं द्रुतम् ॥ ३४ ॥ मुनिपुष्पसलिलपिष्टः सूरणकन्दोदरस्थितो गोष्ठे । खातो मासाद् द्रवति श्वेतः कृष्णोऽथवाभ्रको हेम्ना ॥ ३५ ॥ धान्यकृताभ्रं वज्रक्षीरे पिष्टं चं भावितं तस्मिन् । सप्ताहादतिघर्मे पात्रे ताम्रेऽथवापि मृत्क्लृप्ते ॥ ३६ ।। रक्तोत्पलस्य नालाद्भिः श्लक्ष्णपिष्टः पयोधरः | पश्चात् कुसुम्भतैलेन पिष्टो युक्या द्रवत्यसौ || ३७ ॥ क्षीरकाश्चीरसे पिष्टो द्रवत्यभ्रः सुपेषितः । लोहजातं तथा सर्वं द्रवत्येवातपे स्थितम् ॥ ३८ ॥ द्राक् पक्वः खण्डहाल्यास्तु रसे चूर्णीकृतानि तु । द्रवन्ति सर्वलोहानि युक्त्या घर्मस्थितानि तु ॥ ३९ ॥ हेमतारारतीक्ष्णानि द्वि(कु?गु)ञ्जासार्धरक्तितः । तदर्घपादमानास्तु द्रुता वङ्गे नियोजयेत् ।। ४० ॥ मुनिपुष्परसे बङ्गं द्रुत प्रकृतिवारकम् । निषिश्चेत् तु शिलाचूर्णं प्रतिवापं विशुद्धये ॥ ४१ ॥ हेमादिकानुक्तभागान् शुद्धवङ्गोपले क्षिपेत् । अन्धीकृत्य द्रुतं स्तम्भयत्येव । • सूर्यनन्दाश्विभागाः स्युस्तारताम्रत्रपूंषि च ॥ ४२ ॥ नानाद्रव्याणि] 9 'ना'., 'त्या' स. पाठः. २. 'द्वि' य. पाठः. ३. ५. 'येत्' ख. पाठ: ३७१ 'तानू' क. पाठ.