________________
३७० कर्षमात्रं तु सञ्चूर्ण्य पलार्धं घनसारकम् । चूर्णितं योजयेत् सर्वं नालिकाकदलीजले ॥ २० ॥
अन्धीकृत्य समावेष्ट्. रज्ज्वालिप्य मृदा बहिः । दग्ध्वा तुषकरीषाग्नौ शीतमुद्धृत्य तत् पुनः ॥ २१ ॥
सप्ताहं धान्यराशिस्थं कर्पूरं जायते स्फुटम् । प्ररोहतोये केतक्याश्वोष्णाम्भः शालिमण्डयोः ॥ २२ ॥
क्षीरे च टङ्कणं धौतं याममात्रं स्थितं पृथक् ।
चूर्णयित्वा चतुर्थांशं घनसारेण योजितम् || २३ ||
क्षीरे निष्काथ्य कदलीपत्रे निक्षिप्य शोषयेत् ।
तच्चारु घनसारं भवति । पक्कबिल्वफलान्तःस्थमर्धतैलेन योजितम् ॥ २४ ॥
विशोष्य धर्मे संक्षुद्य स्वच्छाद्भिः कथितं पुनः ।
निष्पीड्य तैलं सङ्गृह्य कर्षकर्पूरयोजितम् || २५ || कर्पूरतैलं भवति । सिक्थॆच्छादितवृन्तानि घृतक्षौद्रस्थितानि तु ।
बीजपूराणि तिष्ठन्ति रसवर्णयुतानि हि ॥ २६ ॥
आम्राणि स्ववतीर्णानि किश्चिद्वृन्तयुतानि तु ।
तैले क्षिप्तानि सगुले चिरं तिष्ठन्त्यसंशयम् || २७ ॥
अन्यान्यपि फलानि तथा चिरं तिष्ठन्ति । सल्लोणवज्रिक्षीराभ्यां ताम्रपत्राणि लेपयेत् । अग्नौ प्रताप्य निर्गुण्डीरसे निर्वाप्य यत्नतः ॥ २८ ॥ त्रिः सप्तकृत्वो रूप्यादिकरणे विनियोजयेत् । गन्धकेन हतं ताम्रं टङ्कणेनोत्थितं पुनः ॥ २९ ॥ सप्तकृत्वो जहात्येव स्वगन्धं कालिकामपि । एवं विशुद्धशुल्बस्य पत्राण्यच्छानि कारयेत् ॥ ३० ॥ [मन्त्रपाद: १. 'स्थी' ख. पाठ:. ५. 'त', ३. 'स', ४. 'त्रस्यच्छा' ग. पाठः.