पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नानाद्रव्याणि] पूर्वा पञ्चाशः पटलः । शङ्खचूर्णरसालेपात् केतकी द्रुतिसम्भवः । मञ्जिष्ठानवपत्तङ्गकुसुम्भारक्तचन्दनैः ॥ ९ ॥

क्रमवृद्धैस्तु लाक्षाम्भोलुलितैर्वस्त्रगालितैः । 

संप्लक्षातण्डुलक्षौद्रयुक्तैः ः सम्यग् विभावितैः t: 11 20 11

पिण्डीकृतैस्तु भवति जातिलिङ्गं सुशोभनम् ।

विश्वैकभागा गुलनिम्बहिङ्गुबीजद्विभागैरथ गुग्गुलोः षट् ।

एरण्डबीजस्य तथाजदुग्धे पिष्टा पुरावद् भवतीह हिङ्गुः ॥ ११ ॥

धान्यराशिस्थमिति यावत् । बिल्वफलनिम्बविश्वामाषा लशुनं च हिङ्गुरेते स्युः ।

ऋत्वब्धि नेत्रभागद्वयवेदमिता यथापुरं हिङ्गुः ॥ १२ ॥

पूर्ववदजादुग्धपेषणादिक्रियया हिङ्गुर्भवति । विकारनागश्रुतिने त्रनेत्रैश्चन्द्रेन्दुनागैर्मितबिल्वमाषाः । नैम्बैर्गुडाजाहृयहिङ्गुविश्वारसोनकाः पूर्ववदेष हिङ्गुः ॥ १३ ॥ अजाक्षीरपेषणधान्यराशिस्थापनयेत्यर्थः 1:1 १. क्वाथस्य शिग्रुमूलस्यच्छागमूत्रं तथा मधु || १४ || पृथक् चतुष्पलं ग्राह्यं तत् त्रिभागावशेषितम् । जातीतक्कोलकस्तूरीचन्द्रकाश्मीरचन्दनाः ॥ १५ ॥ पृथक् पलानि कर्षं चाप्यगरोः श्लक्ष्णपेषितम् । गन्धभाण्डे सुविहितं मण्डलं त्रीहिराशिभिः ॥ १६ ॥

'उद्धृत्य निकरीकृत्यच्छायाशुष्कं निधाय तु ।
निकरादेकमेकं वा योजितं तुल्यगृत्स्नया ॥ १७ ॥
जलक्लिन्नं तु तत् साक्षाद् भवेत् कस्तूरिका शुभा ।
कुमूलं शक्रमोचाय श्छित्त्वा किश्चित्तु वैणवीम् ।। १८ ।। 

नालिकां योजयेद् द्वित्रिनिशां तत्तद्रसस्य तु । प्रस्थद्वयमिर्तं तस्य कणोशीरक चोरकान् ॥ १९ ॥ ३६९ 'ण्ड: 'क. पाठः, २, 'मुकुलं', ३. 'यांजिता कि', ४. 'दं', पाठ: XX