पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

गोरक्षा] पूर्वार्धे एकोनपञ्चाशः पटलः । ३६७ गोमारि ! वज्रिणि! हुंफट् । अस्मिन् ग्रामे गोकुलस्य रक्षां कुरु शान्ति कुरु ठठ । अयं. चे मन्त्रः घण्टाकर्णरवो येन गणं प्रोक्तो महाबलम् || ६ || मारीनिर्णाशनकरः स नः पातु जगत्पतिः । - ठठ । अयं च गोमारिहरो मन्त्रः- ठठ । - अश्विनीवृक्षघण्टान्तः पृथगेतौ विलिख्यतु ॥ ७ ॥ बद्धो मारिहरौ (स्यातां) गोद्वयस्य गलद्वये । गवामशन यज्ञेन यष्टः कुरवः पुरा ॥ ८ ॥ अनन्या देवदेवस्य वचनानि वटोः स्मर | यत् किञ्चित् सप्तकृत्वस्तु जपितं गां तदाशयेत् ॥ ९ ॥ दुष्टापि वशगा सा स्यात् गिरिकर्णीविशेषतः । नमो विष्णवे पुराणाधिपतये उठ । तर्जनीज्येष्ठकाभ्यां तु गृहीत्वा नासिकां तु गोः ॥ १० ॥ नामयेन्मनुनानेन वश्याः स्युश्च तुरङ्गमाः । क्षीरगोपवगोयक्षीरक्षमाक्षक्षमाक्षर ।। ११ ।। नौमानोगगनो मागोपक्षगत्यत्यगक्षपः । रेखाग्रतत्पशूलाढ्ये चतुष्षष्टिपदे त्विमम् ॥ १२ ॥ विलोमप्रतिलोमाभ्यां सर्वभद्रमनुं लिखेत् । खादिरे वापि फलके भूर्जे वा पूजितं ततः ॥ १३ ॥ गोशालाद्वारदेशे तु बघ्नीयाद् गोगलेऽथवा । इदमपि गोरक्षाकरं भवति । संज्ञां गोरपि गोमतः सकलशं वृत्तत्रयं बाह्यतः कुम्भावेष्टितमष्टपत्रकमले वेत्स्यादिमन्त्रं लिखेत् । स्वाहान्तं त्वथ वर्तुलं जलभृशूदण्डान्वितौ सान्तरा- वावेष्ट्याकलयेद् विलोममखिलं तैलादिकं गोगले ॥ १४ ।। १. + 'कररपः परा', २. 'वानानि', ३. 'गो' ग. पाठः. १