पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૧૬ ईशानशिवगुरुदेवपद्धतौ सदधिव्यञ्जनान्नस्य पिण्डं प्रकृतिजापतः ।

दद्यान्मासं विवाहार्थमिष्टां कन्यां स विन्दति ॥ १०३ ॥
कुष्ठं बृहत्यपामार्गे सिद्धार्थोस्तगरं क्षणात् ।

व्योषं समानीक्षीरेण लिम्पेत् कुचविवर्धनम् ॥ १०४ ॥ कर्णपाल्योश्च । [मन्त्रपादः एवंप्रकारा बहुतन्त्रसिद्धाः प्रदर्शिताः संवननाधिकाराः ।

तत्तत्प्रयोगा निपुणैर्यथावदतन्द्रितैरादरतः प्रयोज्याः ॥ १०५ ॥

इति श्रीमदीशानशिवगुरुदेवपद्धतौ तन्त्रसारे मन्त्रपादे संवनन पटलोऽष्टचत्वारिंशः । अथैकोनपञ्चाशः पटलः । . आरग्वधत्वचा रात्रिं लोणं चिञ्चाफलं तथा । शुक्ते पिष्ट्वा हरेत् पीतं गवामुदरबृंहणम् ॥ १ ॥

क्षीरे पिष्ट्वा तिलान् पाटामूलं कार्पासपत्रयुक् ।
पाययेद् गां तु गोतक्रे गोविषूचीं हरेत् क्षणात् ॥ २ ॥
नालिकेरजलं क्षीरं काञ्चिकं च बलारसम् ।
पीतं हन्यात् सरुधिरमतिसारकृतं गवाम् || ३ ||
फणीतकं च निर्गुण्डीं दीप्यकं लशुनं वचाम् ।
काञ्चिके पाययेत् पूयश्लेष्माभेऽतिसृतौ तु गाम् ॥ ४ ॥

सहस्ररश्मिरादित्योऽग्निः ठठ । मन्त्रं पत्रे लिखित्वा गो रक्षायै कलयेद् गले । अष्ट फणा हरिः पालयति ठठ ! अश्विनीवृक्षघण्टान्तलिखितोऽयं तु गोगले ॥ ५॥ बद्धस्तु धातकीरज्ज्वा पीडां गोमारिजां हरेत् । नमो भगवते वज्रमुकारदर्शनाय ओं विल मिलि मेलि सिद्धि १. 'त्येभ्योऽभिः ' ग. पाठः. २. 'खित्वा यस्तु गो' क· पाठः.