पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ लक्ष्मीं च तुल्यं सञ्चूर्ण्य दद्याद् दासः पतिर्भवेत् । हेमोन्मत्तस्य पञ्चाङ्गकाथे क्षीरोदधकृते ॥ ८१ ॥ तत्सारेणाङ्गमालिप्य माषैरुद्वर्त्य तत् पुनः । प्रक्षिप्य तत् फेलस्यान्तः खनित्वा तत्र मेहयेत् ॥ ४२ ॥ सप्ताहादुद्घृतं पञ्चमलैः संयोज्य दापयेत् । एतत् संवननं श्रेष्ठं मन्मथाङ्कुशमीरितम् ॥ ८३ || स्वरक्तं काव्यकिट्टानि श्वेतंभानुशिफा मधु । वचाकुष्ठयुतं दत्तं पुम्भिर्योषावशीकरम् ॥ ८४ ॥ पीत्वोद्गीर्णेन दुग्धेन कूश्माण्डदधि तत् पुनः । मथित्वा नवनीतं च व्यञ्जनं च वशीकरम् ॥ ८५ ॥ भूकदम्बरसं क्षौद्रं शर्करां च प्रलेपयेत् । योषावराङ्गं तस्यास्तु पतिर्दासो भविष्यति ॥ ८६ ॥ कक्षाङ्गश्रोत्रनासादृग्दन्तजिह्वोद्भवानि च । स्वेदात्मतोययुक्तानि द्वयोर्भुक्त्वा वशीकरम् || ८७ ॥ कस्तूरिक।चन्दनचन्द्रकुष्ठकाश्मीरकालागरुनक्तमालान् । कामाह्वयं गोमयवारिपिष्टान् स्वाङ्गं समालिप्य समस्तवश्यम् ॥ १८ ॥ कस्तूरिकाचन्दनयोः क्रमाद् द्वे दानलाश्विनाम् (?) । इन्दोश्च भागा नीहारपिष्टा लिप्ता वशीकराः ॥ ८९ ।। सप्तधा गोमयाम्भोभिः सिक्ता वर्त्तिवटाङ्कुरैः । चूर्णीकृतैः कैलाज्येन कज्जलं सर्ववश्यकृत् (?) ॥ ९० ॥ काश्मीरामयरोचनाञ्जनमः पाद्मं रजः पद्मकं कर्पूरागरुलोह चन्दनयुगं सर्वे समं चूर्णितम् । क्षीरे क्षीरमहीरुहां स्नापतयालक्त+वर्त्या वृतं कृष्णायाः सुरभेर्वृते कृतमषी त्रैलोक्यवश्यप्रदा ॥ ९१ ॥ लक्ष्मीः श्रीः कुमुदं देवी हेम पारावतस्य विट् | गुलीकृता मलयजपङ्कोन्मिश्रा वशङ्करी ॥९२ ॥ २. 'कवला' ख. ग. पाठ:. 'ता' ख. [मंत्रपाद: पाठः,