पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशानशिवगुरुदेवपद्धतौ गव्याजस्नुहिदुग्धानां तत्स्तम्भः पादलेपनात् । श्वेतपुङ्खेक्षुमूले तु मुखे विन्यस्य काञ्चिके ।। ५७ ।। तत् पिष्ट्वा मेढमालिप्य काव्यस्तम्भनमुत्तमम् । लम्बितध्वजयोरश्वगजयोर्मुखरोमभिः ।। ५८ ॥ तथा वृषस्य लागूलं मुखरोमाणि चाहरेत् । रज्जुं तैर्वलयाकारां कृत्वा मन्त्रेण मन्त्रितम् ॥ ५९ ॥ प्रकोष्ठे दक्षिणे क्षिप्त्वा रतिः काव्यनिवारणी । गजाश्वप्रवराणां रोमबन्धनाय | दन्तीमूलं स्नुहिक्षीरे पिष्ट्वा पादौ प्रलेपयेत् || ६० ॥ पादलेपेन काव्यस्य स्तम्भ: स्यात् क्षालने पतेत् । उष्णाम्भसेति यावत् । 9. [ मन्त्रपादु: मत्स्यपित्तं तुरङ्गस्य केसरः करिणो मदः ॥ ६१ ॥ मधुना ध्वजमालिप्य योषासंवननं परम् । विलङ्गं तिलपुष्पाणि गुलं कर्पूरचन्दने || ६२ ॥ स्वभार्गवेण लेपोऽयं योषासंवननं परम् । मांसी वचाश्वगन्धा च कुन्दं च वकुलं तथा ॥ ६३ ॥ अम्भःपिष्टं तदुद्वर्त्य स्थौल्यं प्रजननो व्रजेत् । जातिपुष्पैः पचेत् तैलं तल्लेपात् सुभगो भवेत् ॥ ६४ ।। धुर्धूरबृहतीपत्रे गात्रमुद्वर्त्य वश्यदम् । धुर्धूरपत्ररात्रिभ्यां वश्यमुद्वर्तनं तथा ॥ ६५ ॥ निर्यासं कर्णिकारस्य कर्पूरं केतकीरजः । सिन्धूत्थक्षौद्रयुग्लेपो ध्वजस्य मरणान्तिकः ।। ६६ ।। बैल्वं च पुष्पं सघृतं च पद्मं जातिप्रियङ्गं पशुरोचनाभिः । तद्वर्तिगव्याज्यमषीं दृशोऽञ्जेद् यं यं जनं पश्यति सोऽस्य दासः ॥ कुष्ठं कुरण्डं मधुकागरू द्वे कस्तूरिका चन्दनमिन्दुयुक्तम् । आलेपितं गोमयवारिपिष्टं स्पृष्टं कराभ्यां वशयेत् समस्तम् ॥ ६८ ॥ > ग्ण: क. ख. पाठ:- २. 'कृ', ३. 'सृ' ख. पाठः