पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे अष्टचत्वारिंशः पटलः । सहस्रं तेत्तु निखनेद् भद्रकालीगृहे यदि । साध्यो वश्यो भवेत् तस्य यावज्जीवमसंशयः ॥ २४ ॥ साध्यर्क्षवृक्षफलके समासीनस्तु वाग्यतः । कृष्णाष्टम्यां निशायां तु यामादूर्ध्वमुदङ्मुखः ॥ २५॥ रक्तगन्धाम्बरधरः कुण्डे वा स्थण्डिलेऽथवा | इष्ट्वाग्निमग्नेः प्राग्भागे भद्रकालीं तु पूजयेत् ॥ २६ ॥ रक्तवस्त्रेऽच्छलवणनिर्मितां साध्यपुत्तलीम् । सजीवनामहृदयां सप्राणेन्द्रियसन्निधिम् ॥ २७ ॥ लवणमन्त्राधिकारः] क्षौद्रसिक्तामग्निमुखाद् व्याहृत्या जुहुयात् परम् । आवाह्याग्नौ भद्रकालीमाराध्य ध्यानमास्थितः ॥ २८ ॥ वामपादं समारभ्य यावद्वामकरान्तकम् | विभज्य तां तु जुहुयाद् यावदाहुतिसप्तकम् ॥ २९ ॥ आज्यं व्याहृतिभिर्हुत्वा भूतक्रूरेण वै बलिम् । तिलराजिनिशासक्तुदधिमिश्रौदनं क्षिपेत् ॥ ३० ॥ ३५९ णफो णफो कालरात्रिगणेभ्यः सर्ववश्यकरेभ्यः सर्वशान्तिकरेभ्यः । प्र- तिगृह्णन्तु सर्ववश्याय सर्वशान्तये बलिमिमं ठठ | पश्चात् साध्यस्य हृदयं मन्त्रेण स्वहृदि न्यसेत् । स एव इमिति स्मृत्वा जपेत् सप्तत्रिवारकम् ॥ ३१ ॥ अग्निं चैव महारात्रिमुद्वास्य तु समापयेत् । कृष्णाष्टमीं समारभ्य यावत् कृष्ण चतुर्दशी || ३२ ॥ तावल्लवणहोमं तु कृत्वा सर्वं वशं नयेत् । साध्यो दद्याच्च सर्वस्वं दासवन्नात्र संशयः ॥ ३३ ॥ आस्यदघ्नजले स्थित्वा सहस्रावृत्ति कर्षणम् । मुक्तपुष्पसहस्रेण प्रत्येकं तत्पदे क्षिपेत् ॥ ३४ ॥ जपित्वा भद्रकाल्यास्तु साध्याकृष्टिकरं परम् । तालपत्रे लिखेन्मन्त्रं साध्यनामविदर्भितम् ॥ ३५ ॥ 9. 'तं तु' ग. पाठः. २. 'घू' ख. पाठः,