________________
१५४ ईशानशिवगुरुदेवपद्धतौ गव्यानि पञ्चेक्षुतिलान् यवांश्च (मुद्रान् ?) शालींश्च गोधूमक चिल्वमाषान् । तिलाब्जबीजानि च पद्मपत्रे ताम्रे निखन्याद् भुवि नागयोगे । १०३ । . ताम्रसमुद्ग के निधाय सुदर्शनेनायुतमन्त्रितमिति यावत् । अमावास्यान्त्ययामा प्रथमा घटिका स हि ।। १०४ ॥ सार्पे मुहूर्ते सार्पक्षे सार्पे तु करणे तथा । अयं च नागयोगः | मूलानि पञ्चापि मृदश्च पञ्च सर्वाणि बीजानि च पञ्चगव्यैः । मृत्पात्रगर्भे तु नृसिंहबीजं जपन् निखन्याद् भुवि नागयोगे ॥ १०९ ॥
क्षुद्राणि नश्यन्ति श्रियश्च वर्धन्ते ।
चतुः शरावेषु सिताब्जवर्त्त्या प्रज्वाल्य दीपान् कपिलाघृतेन ।
निधाय भाण्डे निखनेन्निशायां विवादभूः सास्य भवेत् समृद्धा ॥ १०६ ॥ नमो भूत्वा स्वयं नागः क्षेत्रं कृत्वा प्रदक्षिणम् ॥ १०७ ॥
ग्रहणे नागवक्रेण दर्शेद् भूमिः स्वसाद् भवेत् । पञ्चाब्जपत्राणि पृथक् तु गव्यैरापूर्य चैकीकृतनालबद्धम् । क्षुद्रापहं पत्रगतं निखन्यात् स्मृत्वा तु शेषं भुवि नागयोगे ॥ १०८ ॥ क्रोधाग्नेः कलः कटः हुंफट् ठठ । अर्चिषे ठठ । ज्वालाधूम्राय ठठ पातालरुद्राय ठठ । उत्तिष्ठ पुरुषाय ठठ । धनुर्धराय ठठ ।
एतानि जातियुक्तानि षडङ्गान्यस्त्रमन्त्रतः ॥ १०९॥
ऋषिस्तु पिप्पलादोऽस्यच्छन्दोऽनुष्टुप् सभीरितम् ।
क्रोधाग्निर्देवता रुद्रो दशबाहुस्तु भैरवः ॥ ११० ॥ पाशाङ्कुशौ खड्गखेटं शरं चैव शरासनम् ।
खट्वाङ्गभुजगाभीतिवरदान् दधतं क्रमात् ॥ १११ ॥
नीलजीमूतसङ्काशं पिशङ्गोर्ध्वशिरोरुहम् । व्याघ्रचर्माम्बरधरं नानानागैश्च भूषितम् ॥ ११२ ॥
१. 'गं’क. ख. पाठः, २. 'गबन्धम् ग., 'लबद्ध:' ख. पाठः २. कद हुं', ४. 'ते' . पाठः.