पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

क्षुद्रतत्प्रतीकारौ] पूर्वार्धे सप्तचत्वारिंश: पटल: । हन शत्रुं त्रिशूलेन क्रुद्धस्य पिब शोणितम् । दह पच मथ मारय शोषय उत्सादय नाशय हुंफट् ठठ । अस्याङ्गानि । सञ्जीवनि ! ऊर्ध्वकेशिनि ! प्रज्वलितशिखे ! मायात्रैलोक्यस्वरूपिणि! सहस्रपरिवर्तिनि ! तारकाक्षिमारिणि ! | एतानि जातियुक्तानि षडङ्गानि यथाक्रमम् ॥ ४६ ॥ ऋषिस्तु पिप्पलादोऽस्य निवृच्छन्दस्तु देवता । भद्रकाली समाख्याता लक्षजापेन सिध्यति ॥ ४७ ॥ शुष्कान्त्र मांसजठरा कृशदीर्घकाया दंष्ट्राकरालवदना सकपालशूला । वृत्तोप्रपिङ्गनयना ज्वलितोर्ध्वकशी व्यादीर्घघोणविकटावतु गृध्रकर्णी ॥ ४८ ॥ कर्णिकायां गृध्रकर्णी कोणेष्वङ्गानि दिक्ष्वपि । अस्त्रं नेत्रं तथैवाभ्यां बहिर्मांतॄंश्च पूजयेत् ।। ४९ ।। कपालान्तस्तु विलिखेत् साध्याख्यान्तरितं मनुम् ।

एकलिङ्गे जपेन्मन्त्रं याम्यवक्रस्तदासमः || ५० || 

मासान्तर्मारणादीनि सिध्यन्त्येवास्य रात्रिषु । निम्बपत्राम्रतद्वीजपिष्टेना लिप्य विग्रहम् ॥ ५१ ॥

स्निग्धयोर्मध्यतो गच्छेज्जयंस्तौ द्विषतो मिथः । 

कणैस्तत्पादरजसां गर्ते पैप्पलिके हुतात् ॥ ५२ ॥

उत्सादकृष्ट्वोर्ध्वबाहुर्जपेद्वाभिमुखो रवेः ।

अश्विकीलं स्वनेत् पादे स्यादुच्चाटस्तु दक्षिणे || ५३ ॥ वामे व्याधिर्मृतिर्वा स्यात्समन्त्रं तु गुणाश्रकम् । ह्रीं ह्रीं ह्रीं ष्रटधनतहुं शत्रु नाशय हुंफट् ठठ ।

ससाध्याख्यं जपेन्मन्त्रं शत्रुश्चातुर्थिकज्वरी ॥ ५४ ॥
शूली वा स्यादस्थिविद्धां गैरिकप्रतिमां लिखेत् ।
प्राणप्रतिष्ठां कृत्वैव पुत्तलीषु ततः क्रियाः ॥ ५५ ॥
सिध्यन्त्यष्टोत्तरशतं जपेन्मन्त्रमिमं क्रमात् ।

२ सजीवनामहृत्साध्यपुत्तली द्वादशाङ्गुला ।। ५६ ।। १. 'प्रपनतंडे', २. 'दं' ग पापः