पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इशानशिवगुरुदेवपद्धतौ काकपक्षं नरस्यास्थि राजीवोच्चाटनं द्वयम् | अश्विकीलं त्रियश्रं तु दुर्गानीजयुतं खनेत् ॥ ३६ ॥ शत्रुपादे गृहे वापि भवेदुत्सादनं रिपोः । परिद्वन्द्वं च वर्मान्ते स्वाहान्तं मनुनामुना ॥ ३७ ॥ निम्बकीलं विशाखायां खनेदुत्सादनं गृहे । निम्बस्थवायसगृहं दग्ध्वा तु चितिकानले ॥ ३८॥ तद्भस्म द्वारि विन्यस्तं गृहोत्सादनमावहेत् । तदेव शिरसि क्षिप्तं विद्वेषोचाटकारकम् ।। ३९ ।।. [भ] अस्ः नमो भगवतोन्मत्त षुद्राश भ्रम भ्रमय अमुकं वित्रासय उद्धमय रुद्र ! रौद्रेण रूपेण हुंफट् ठठ । ऋषिः स्यादस्य कैवर्तः ककुप् छन्दोऽस्य देवता । रुद्रः कृष्णाष्टंमीपूर्व जपेद् यावच्चतुर्दशी ॥ ४० ॥ रात्रौ त्रिलक्षं सञ्जप्य श्मशाने तत्र होमतः । धुर्धूरसमिधां शत्रून् भ्रमत्येवाष्टभिर्दिनैः॥ ४१ ॥ हेमगैरिकजां शत्रोः पुत्तलीं हेमसूचिभिः । मध्ये प्रतिष्ठितप्राणां सद्यैः शत्रुर्मरिष्यति ॥ ४२ ॥ कालदष्टे भयकारि दर मर्द संहर हुंफट् ठठ | कालदष्टे ठठ । भय- पारिठठ | दर मर्द ठठ | संहर ठठ । हुंफट् ठठ | कुचकोऽस्य ऋषिश्छन्दो निचृद् दैवं यमः स्वयम् । कृष्णाष्टम्यां चतुर्दश्यां शिवमिष्ट्वा पयोव्रतः ॥ ४३ ॥ पञ्चलक्षं जपित्वा तु सिद्धमन्त्रो भवेत् ततः । नाभिमात्रे जले स्थित्वा पटेनार्द्रेण विग्रहम् ॥ १४ ॥ विधाय संशिरोजापात् पक्षाच्छत्रुर्मरिष्यति । दृढकण्ठि | विरूपाक्षि ! संक्षाणि | स्वं महोदरिं ॥ ४५ ॥ १. 'न्तैः', २. 'यः', ३. वर्ण', ४. 'वयं म' ग. पाठः.