पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशान शिवगुरुदेव पद्धतौ दक्षिणोत्तरयोर्लेख्यं शिरसी महिषाश्वयोः । कोणेषु रेखा चैकैका शूलान्येषु वै लिखेत् ॥ १४ ॥ रेखाग्रेष्विति यावत् । चिताङ्गाराक्षनिम्बाद्भिर्विलिखेच्छव कर्पटें । प्रथमे वर्तुले तंत्र लिखेदक्षरपञ्चकम् ॥ १५ ॥ •

मध्य प्रागाप्ययाम्यदक्कोष्ठेष्वक्षरपञ्चकम् ।
क्रमेण यममेदक्षे नामकर्म च मध्यगम् ॥ १६ ॥ 

द्वितीये वर्तुले पूर्वयाम्याप्योत्तरकोष्टगान् ।

रादोयोयेति संलिख्य ततः कोष्ठचतुष्टये ॥ १७ ॥
कोष्ठद्वयेषु विलिखेज्जङ्घारुण निरावर । 

निरकरणानिदनिरक्षोऽनिलेशगान् (१) ॥ १८ ॥ पुनरन्तःस्थशूलानां पार्श्वकोष्ठाष्टकेषु वै । यमाष्टाक्षर मालिख्य पुनस्तद्वादशाक्षरम् ॥ १९ ॥ अन्तर्बहिःस्थशूलाप्रसूचिकासु लिखेदपि । यमान्तकं दलाग्रेषु नेमिबाह्ये दलेषु तत् ॥ २० ॥ एतदारभ्य यन्त्रं तु संपुटे तु शरावयोः । स्निग्धयोर्मध्यतो गच्छेत् श्मशानादौ खनेच्च तत् ॥ २१ ॥ 'बलिं च निक्षिपेत् पूर्वं द्रव्यैरेतैर्यमाय तु । पयोदध्योदनै रात्रीर्मध्वाज्यं मुद्गमाषकौ ।। २२ ।। मोदकं सक्तुलाजांश्च सर्वान् प्रागीशगोचरे । द्वादशाक्षरेण यमान्तक्रेषु नवकृत्वः क्षिपेत् । लोकेशेभ्यश्च कौबेर्या यक्षेभ्यश्चाथ नैर्ऋते ॥ २३ ॥ राक्षसेभ्यश्च सर्वासु भूतेभ्यो दिक्षु निक्षिपेत् । चक्रस्य दक्षिणे स्वीयैर्नामभिः प्रक्षिपेद् बलिम् ॥ २४ ॥ १. 'त्वममे', २. 'दारो यो' क., 'रोदोये ये' ग्र. पाठः ३. ' के पाठ:. ४. 'रचन मिरकरणानि दनि ५. 'तम्' ग. पाठः०