पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૨૪૪ ईशानशिवगुरुदेवपद्धतौ सर्वत्र काञ्चिकेनैव पेषयेत् । काकतुण्ड्याश्च पीलोश्च बीजतैलमयोमये । भाण्डे घर्मस्थमभ्यक्तं नस्याच्च पलितं हरेत् ॥ १४३ ॥ अन्तर्धूमं दहेन्मेहानर्कक्षीरे तु तद्रजः । कटुतैलयुतं लिप्तं शिरोरोगं व्यपोहति ॥ १४४ ॥ धात्रीपुन्नागबीजानि लाक्षारग्वधपल्लवाः । [मन्त्रपादः शु( त ? क्त) पिष्टा विलिप्तास्तु शिरोरोगहराः स्मृताः ॥ १४५ ॥ काकोडुम्बरमूलं तु तपडुलोदकपोषितम् । दन्तस्य रुधिराखावं पीतमेव निवारयेत् ॥ १४६ ॥ पथ्याक्षा मलनीलिका मधुकरीवाराहिमुण्ड्योऽमृता ब्रह्मागश्च पुनर्नवा सतुरगा रक्तं तथा पीतकम् | चूर्णीकृत्य समांशकं शतपुटं कान्तं तदर्धांशतः

क्षौद्रालोलितमश्नतोऽब्दमजरं स्याच्चामरं तद्वपुः ॥ १४७ ॥
पथ्याक्षामलकाग्निकीटरिपबः स्याद् वाकुची भृङ्गिका

भल्लातश्च तथासनं शतपुटं कान्तं क्रमाद् वर्धितम् । तत्पात्रे मधुशर्कराज्यमृदितं लेह्यं तु संवत्सरात् सिद्धिं प्राप्य जरां विजित्य शरदां जीवेत् सहस्रं सुखी ॥ १४८ ॥ इति श्रीमदीशान शिवगुरुदेवपद्धतौ सिद्धान्तसारे मन्त्रपादे नानारोगपटलः षट्चत्वारिंशः । अथ सप्तचत्वारिंशः पटलः । अथाभिचाराः शत्रूणां धर्मवेदद्रुहां स्मृताः ।

ते च सप्तविधाः स्तम्भविद्वेषोच्चाटमारणैः ॥ १ ॥
भ्रान्त्युत्सादनयोगश्च यत्रमन्त्रहुतादिभिः ।

सिध्यन्त्यौषधयोगैश्च तत्तत्तन्त्रनिदर्शनात् ॥ २ ॥ १. 'ला', २. 'मरजं स्या' ख. पाठः ३. 'ता' क, पाठः, ४ ताम्' स. पाठ:-