पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पूर्वार्धे षट्चत्वारिंशः पटलः । पुष्पाणि शल्मले: क्षीरे ऋतौ पीत्वा चतुर्दिनम् । वन्ध्या स्यादभयाव्योषे पीत्वावन्ध्यैव जायते ॥ १३२ ॥ •मञ्जिष्ठाञ्जनशारिबाब्दकटुकं नक्तैलजातीफला- श्री (कण्ठ खण्ड) त्रिफलाजटातगररुग्यष्टीचतुजतिकैः । सोशीरागरुचोरयुग्ममृगनाभिः + पलाम्भोबिसै- स्तैलं नेत्रशिरार्तिहन्तृ सपयः सिद्धं कुमारीरसे ॥ १३३ ॥ समेभदन्तामल (कं) पुटदाह्यमुषी (?) रसैः भृङ्गस्य पिष्ट्वा तत्कल्कं ग्राह्यमष्टपलं पुनः ॥ १३४ ॥ द्वात्रिंशत्पलभृङ्गाद्भिस्तदर्धे तिलजं पचेत् । खलतेरपि जायन्ते केशास्ततैलम्रक्षणात् || १३५ ॥ रसाञ्जनमजाक्षीरं पुटदग्धेभदन्तयुक् । तत् पिष्टमायसगतं लिप्तं केशोद्भवप्रदम् || १३९ || खल तेरपीति यावत् । कृष्णगोमूत्रपिष्टं तु जपापुष्पं विलेपयेत् । इन्द्रलुप्तं हरेद् गुञ्जामूलं सा बृहतीरसे || १३७ ।। लघुबृहतीफलान्तर्वर्ती रस इति यावत् । धात्रीं कुष्ठं च मांसीं च मूलं नीलोत्पलस्य च । बलां जलेन सम्पेष्य लेपान्निबिडकेशता || १३८ । सगन्धामलमात्रास्थि लिप्तं केशच्युतिं हरेत् । नीलोत्पलशिफायष्टिकेसरास्तु समास्त्रयः ॥ १३९ ॥ तैस्तुल्यामलकं लिप्तं कपालार्शोहरं परम् । आरग्वधदलं धात्री लाक्षापुन्नागबीजयुक् || १४० ।। सुखाम्बुपिष्टमालिप्तं कपालार्शोहरं परम् । बीजानि त्रिफलानां च शस्त्रचूर्णं तु भृङ्गराट् ॥ १४१ ॥ रक्ताश्वमारकुसुमं नीलीचूर्णं च पेषितम् । गुलेन धूपितं लिप्तं कृष्णतां पलितं नयेत् ॥ १४२ ॥ बारोगाचकित्सा] १. 'लंमृक्ष', २. 'ल' ब. पाठ:.