पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ षट्सप्तदिवसादूर्ध्व कुम्भमुद्धृत्य तद्रसम् । छायाशुष्कं विधायैतं भृङ्गामलकवारिणा ॥ १२० ॥ सम्मर्द्यं शुद्धकास्तु विलालपदमात्रकम् । भक्षयेत् प्रातरुत्थाय प्लीहोदरविनाशनम् ॥ १२१ ॥ विशाला मूलमादाय खादेदन्तः प्लिहां क्षणात् । [सम्पाद विनाशयति हित्वा तं द्विधा पास्येत् प्लिहां हरेत् (१) ॥ १२५ ॥ सप्तार्कपत्रैः सिन्धूत्थं पुटदग्धं तु मस्तुना । १२३ ॥ पिबेत् प्लिहाहरं चैतद् धन्वन्तरिमतं यथा ॥ पुनर्नवस्य शुक्तस्य पाठायाश्च शिफां पिबेत् ।

तण्डुलोदकपिष्टे द्वे विद्रधिघ्ने च लेपयेत् ॥ १२४ ॥
ताम्रकिट्टं तु तक्रेण पिष्ट्वा लिप्तं तु कुष्ठजित् ।

वाकुचीपिष्टलब्धं तु भाण्डे क्षीरं दधीकृतम् ॥ १२५ ॥ तत् तक्रं नवनीतं च पीतं लीढं च कुष्ठजित् । तत्र मधुना सह नवनीतं लीढ्वा पश्चात् तक्रं पिबेत् ।

श्वेतकुष्ठं नश्य-

तीति यावत् । श्वेतापराजितामूलं विलिम्पेत् कुष्ठनाशनम् ॥ १२६ ॥ जलपिष्टशुण्ठिसहितं क्षीरक्वाथत्रिभागतः । गोमयाम्भोयुतं पीतं विषमज्वरनाशनम् ।। १२७ ।।

तिक्ता मुस्तापटोलानि लूकपिञ्छं (१) च गुग्गुलु । 

कृष्णवाससि बद्ध्वा तद्धूपश्चातुर्थिकापहः ।। १२८ ॥ क्षीरेण वा बलामूलं मेघनादाशफा तथा ।

तण्डुलोदकपीता स्यादसृग्दरनिवारणम् ॥ १२९ ॥
रक्तशुक्लजपापुष्पं रक्तशुक्लस्रुतौ पिबेत् ।

क्षीरेण काल्यं तन्मूलं तत्काथं पयसा निशि ॥ १३० ॥ नालिकेरस्य कुसुमं मृदावेष्ट्याग्निना दहेत् । तद्रसं पयसा पीतं शुक्लस्रावनिवारणम् ॥ १३१ ॥ १. 'त मू' क. ग. पाठः २. 'स्य' ख, पाठः.