पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

नानारोगचिकित्सा ] पूर्वार्धे षट्चत्वारिंशः पटलः । श्वेतपूलासपत्राणां (?) मनाङ्मरिचसिन्धुयुक् । कल्कं तैले पचेत् तद्वद् वयस्याश्च (?) व्रणापहम् ॥ १०९ ॥ तदेव नालिकेराज्यसिक्तं वह्निव्रणापहम् । हस्तपिष्टैरपामार्गपत्रैर्वा कारवल्लिजैः ॥ ११० ॥

किञ्चिल्लोणान्वितैर्बद्धं सद्यः क्षतविरोपणम् ।

तालाङ्कुरस्थचूर्णं च बद्धं सद्यः क्षतापहम् ॥ १११ ॥

षट्सप्ताष्टकनिष्कैमात्रविधृतैः पथ्याक्षधात्रीफलै-
र्धर्मेप्रस्थजले 

विशोष्य कुडुबं तैलत्रयं प्रक्षिपेत् । गोपीचूर्णमपि क्षिपेत् सुविहितं तन्निष्कमात्रं स्थितं ३४१ धान्यानां निचये त्रिसप्तदिवसं कापालमर्शो हरेत् ॥ ११२ ॥

विश्वामित्रनिष्कं माजिल्लताया (?) वल्लीं च पत्रैर्वसुनिष्कमात्रम् ।
निष्काथ्य पीतं निशि तत् प्रभाते जरां (?) महोष्णं शमयेच्च दाहम् ॥ ११३ ॥
राजीनां कुडुबं पिष्ट्वा द्विप्रस्थं मथिते स्थितम् ।

ऊर्ध्वं दिनत्रयात् पीतं शीतिकाः सकला हरेत् ॥ ११४ ॥

रक्तगोक्षुरमूलानां त्रिनिष्कं क्षीरपेषितम् ।

क्षीरे सशर्करं पीतं शर्कराश्मनिपातनम् ॥ ११५ ॥ चूर्ण रसेनोत्तमकन्यकायाः समुद्रलोणाक्षतनालिकेरम् । तन्मूलवक्त्रं तु मृदा परीतं श्वासान् हरेत् संमुखेदग्धमन्तः ।। ११६ ।।

सिन्धूत्था कमाक्षिकाणि कटुकैः पथ्यर्क्षधात्रीशिला-
भृङ्गाद्भिः शतशः पुटेषु विहितः कान्तः सहोषामृदा ।

एते तुल्यविभागिकास्तु सहितं सौतं ततोऽर्घाशकं

भृङ्गीमर्दितमात्रमानमदतो(?) मर्त्यस्य मृत्युः कुतः ॥ ११७ ॥
शाखापुरुषमात्र तु गूले कोमल शल्मले : ।

1. शिफां प्रधानां छित्त्वास्यच्छेदे कुम्भं निधापयेत् ॥ ११८ ॥ ऊर्ध्वं पुरुषमात्रे तु छित्त्वा तं शल्मलिं मृदा । अष्टाङ्गुलं समालिप्य गोकरीषेन्धनैर्दहेत् ॥ ११९ ॥ 'दास' ग. पाठः २. 'एक कामवि', ३. 'मार्गो', ४. , ५. 'सभ श्रम' ख. पाठः०