________________
૪૦ ईशानशिवगुरुदेवपद्धतौ धात्रीरसा लोलितशङ्खपुष्पीं तथामलक्यास्तु कुरण्डमूलम् । घृतेन दध्ना सहितं पिबेद् वा नारी पटोलस्य शिफां सुतार्थम् ॥ ९६ ॥
काकमाच्या शिफां पुष्ये प्रातरुद्धृत्य वाग्यतः । 'पयसा पाययेन्नारी गर्भ सा लभतेऽचिरात् ॥ ९७ ॥
चन्दनगोपी द्राक्षालोध्रक्वाथं पयोयुतं ससितम् ।
गर्भस्रावनिवारं मुस्ताक्षीरेण शीतलं पिबतु ॥ ९८ ॥
गर्भरक्षार्थम् । पृथङ्मासेषु गर्भस्य चलनेऽगदमुच्यते ।
पद्मकोशीरतगरमजाक्षीरेण पाययेत् ॥ ९९ ॥
कशेलुविश्वाशेलूकनीलाब्जानि द्वितीयके । तृतीये पाटलोशीरं मुस्ताक्षीरेण पाययेत् ॥ १०० ॥
कदलीकन्दनीलाब्जकन्दोशीरश्चतुर्थ के ।
पञ्चमे क्षीरकाकोली क्षीरकाञ्च्युत्पलाम्बुजम् ॥ १०१ ॥
द्राक्षोत्पले केसरं च षष्ठे क्षीरेण पाययेत् ।
कपित्थत्वक्फले मूलसितालाजांश्च सप्तमे ॥ १०२ ॥ अष्टमे क्वथितं पेयं धान्यकोत्पल केसरैः । एरण्डमूलं काकोली नवमे मोदकं चरेत् ॥ १०३ ॥
दशमे कुङ्कुमं यष्टिमधुकं च सितोत्पलम् ।
सितां च तण्डुलाम्भोभिः क्षीरयुक्तं तु पाययेत् ॥ १०४ ॥
पाशाशिका वापि च पय्पणस्य (?) - पत्राणि पिष्टानि जलेन नाभेः ।
अधः प्रलेपेन सुखप्रसूतिस्तच्छाखिकाधोमुखलम्बनाच्च ॥ १०५ ॥
प्रसूतिगेहोपरि सूतिकाले करङ्गमो (?) मूर्धनिवेशनाच्च ।
विलोममृत्युञ्जयजापतैलालेपेन गर्भस्य सुखप्रसूतिः ॥ १०६ ॥ द्राक्षाव्याघातरजनी चूर्णमध्वाज्यगर्भिणी । पटश्वरकृता वर्तिर्ब्रणे योन्या विशोधनी ॥ १०७ ॥
शारिबोत्पलपत्रैर्वा लोध्रचन्दनयष्टिभिः ।
कुल्के क्षीरेण तिलजं पचेत् तद् व्रणरोपणम् ॥ १०८ ॥