पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पूर्वार्धे षट्चत्वारिंशः पटलः । फलं तु धात्रीशुङ्गानां निष्क्काथ्याथ निपीड्य तत् ।

रसो गुलयुतः पीतः सद्य एव विरेन्वकः ॥ ८४ ॥ 

चतुस्त्रिव्द्येकभागास्तु पथ्याक्रमुकनागराः ।

सिन्धुजं चोष्णतोयेन साशुपानं (?) तु रेचकम् ॥ ८५ ॥
कोकिलाक्षः स्वयंगुप्ताबीजमाषसितातिलाः ।

समभागाः पयः पीता वृष्याः स्त्रीशतगामिनाम् ॥ ८६॥ त्रिफला ससिता क्षीरे स्वयङ्गुप्ताशिफा तथा ।

तद्वीजभाषचूर्ण च वृष्यं क्षीरे सशर्करम् ॥ ८७ ॥
तिलतण्डुलमाषाणां चूर्ण गुप्ताफलस्य च ।

कृष्णारम्भाफलं चाज्ये सिद्धं वृष्यं प्रमोदकम् ॥ ८८ ॥ क्षीरानुपानमिति यावत् । गुप्तावरीगोक्षुरमूलमालैस्तिलैः समैः श्लेष्मलकस्य बीजैः । चूर्णीकृतैः शर्करया च दुग्धे पिबेन्निशायां वनिता सुतार्थिनी ॥ ८९ ॥

शिफामशोकस्य धनेशदिग्गतां प्रजार्थिनी रक्तवटाङ्कुरैः समम् ।
जले स्थिता नाभिमते पिबेदृतौ प्रियेण गर्भ लभते समागता ॥ ९० ॥ दूर्वाखिला(?) श्रीसहदेवमूलेनाश्वत्थदर्भाङ्कुरवंशशुङ्गम् ।

३३९ क्षीरेण पिष्ट्वा तु पिबेहतौ स्त्री सम्प्राप्य गर्भं लभते कुमारम् ॥ ९१ ॥ श्रियश्च मूलं वटशुङ्गसप्तकं पिबेत् तु दुग्धेऽथ तयोस्तथाङ्कुरौ । सहाङ्कुर्राश्चापि निपीढ्य तद्रसैः करोतु नासास्थमृतौ सुतार्थिनी ॥ ९२ ॥ स्नाता चतुर्थदिवसे कृतमङ्गला स्त्री पीतौषधा वसुमतीं न पदा स्पृशेत् सा । तिष्ठेन्न चाह्नि जरिते त्वगदे सदुग्धं भुक्त्वाज्यवन्निजपतेः शयनं समेयात् ॥ नारी पिबेद् यदगदं तु तदेव नस्यं कुर्यात् तु दक्षिणपुटे सुतकामिनी चेत् । कन्यार्थिनी तदितरे शयनं च कुर्यात् पार्श्वेन तेन विधिनैवमृतुत्र्यान्तम् ॥

गर्भस्य दोषशमनं तगरास्थि दुग्धे पेयं तु गर्भचलने दघिसम्प्रयुक्तम् ।
बन्ध्यारजो लिकुचचन्दनयष्टिध्रगोप्युत्पलं पिबतु तण्डुलतोयपिष्टम् ॥९५॥

१. 'को', कः पाठः।