पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

अथ सप्तदशः पटलः। वाग्भवं तदनु मन्मथबीजं सर्गवान् भृगुरनुग्रहयुक्तः । त्रैपुरो मनुरयं किल बालः कामधेनुरिव कामधुगुक्तः ॥ १ ॥ विद्यावाग्भवकामराजकलिता ह्येषा सवागीश्वरी त्रेताग्नित्रिजगत्रिमूर्तिसवनैर्वेदैर्गुणैः कारणैः ।

यद्वान्यत् त्रिविधं भवेत् त्रिपुरया वर्णत्रयाविष्कृतं

तज्ज्ञेयं त्रिपुरेतिनामविषया शक्तिः पराख्यायते ॥ २ ॥ श्रीर्ब्रह्मा मुनिरस्य चोष्णिगुदिता छन्दः स्वयं देवता ____ वागीशीत्यपरे शिवं च कथयन्त्यन्ये तथा भैरवम् ।

पूर्णेन्दुधुति वाग्भवाख्यमपरं यद् बन्धुजीवारुणं - प्रोत्फुल्लारुणकर्णिकाररुचिरं बीजं तृतीयं विदुः ॥ ३ 

तारं व्योम तथा भृगुश्च सकलो मन्त्रस्त्रिवर्णो ह्ययं । शेषाख्यस्त्रिपुरामनोस्तु रचयेदङ्गान्यनेन क्रमात् । स्वाभिर्जातिभिरन्वितान्यथ पुनः पाण्योः शरीरे न्यसेत् ___

कृत्वास्त्रान् करशुद्धिमङ्गुलिषु तद्वर्णानि चाङ्गानि च ।। १ ॥

ओं हसौं कनिष्ठाङ्गुलये नमः । ओं हसौं अनामिकायै नमः । ओं हसौं मध्यमायै नमः । ओं हसौं तर्जन्यै नमः । ओं हसौं ज्येष्ठाङ्गुलये नमः । विन्यस्याङ्गुलिषु क्रमेण करयोरेचं त्रिपर्वक्रमात् ओं हसौं ऊर्ध्ववक्राय नमः । ओं हसौं पूर्ववक्राय नमः । ओं हसौं . दक्षिणवत्राय नमः । ओं हसौं उत्तरवक्राय नमः । ओं हसौं पश्चिमवक्राय नमः। इत्थं चाङ्गुलिभिर्मुखेष्वभिसृतज्येष्ठादिभिर्विन्यसेत् । मूलार्णान्वितशेषतश्चरणयोर्जान्वोरुपस्थे तथा

नाभौ हृद्गलतालविन्दुषु पृथङ् मूर्धन्यपीत्थं न्यसेत् ॥५॥

१. 'कासनक' क. ख. पाठः. १. 'रं जीवं तृ' क. पाठः. ३. 'स्तु परय' क. पा. ४. 'क' स. पाठ:.