पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३३६ ईशान शिवगुरुदेवपद्धतौ खदिरस्य कपित्थस्य श्वेतकृष्णारिमेदयोः ।

पलाशस्य च निर्यासं (?) दार्वीकुटचबीजयोः ॥ ४९ ॥ 

- भागास्त्रयस्त्रयो ग्राह्यास्त्वथ कान्तं च चन्दनम् । कृष्णमूलासुमूलं च मुसल्याकुलिकाशिके ॥ ५० ॥

धात्री च नागकुसुमं पृथगेते चतुर्गुणाः । 

कार्पासस्यानुधावन्त्यां मूले कृष्णार्जुनत्वचः ॥ ५१ ॥

पृथक् पृथक् पञ्चभागाः सर्वमेकत्र चूर्णयेत् । 

तच्चूर्णं मधुना प्रातर्लेह्यं तक्रेण वा पिबेत् ॥ ५२ ॥

कषायं च पिबेद् रात्रौ वक्ष्यमाणौषधैः श्रुतम् ।
त्रिफला च निशायुग्मं जम्ब्वारग्वधयोस्त्वचौ ॥ ५३ ॥ 

पाठामृताब्दतकरशक्तिपत्रपुनर्नवाः । सर्वाणि समभागानि निष्काथ्याष्टावशेषितम् ॥ ५४ ॥ शीतलं मधुना मिश्र पीतं विंशतिमेहहृत् । निष्टेरका कुलीबीजे बद्धवलिदलानि च ॥ ५५ ॥ अद्वैताद्वैतद्वैतभागांस्तक्रेण पेषयेत् । त्रिचतुःपञ्चदिवसैर्मेहान् प्रातः पिबन् जयेत् ॥ ५६ ॥ शक्रवल्लिशिफांशाः षट् करञ्जस्याङ्कुरास्तथा । तत्काथस्तु हरेद् वृद्धिं पीतस्तद्वीजचूर्णयुक् ॥ ५७ ॥

कोकिलाक्षाङ्कुरान् पिष्ट्वा विश्वासिन्धूत्थदीप्यकैः । 

पिबेत् तक्रेण गव्येन बीजवृद्धिर्विनश्यति ॥ ५८ ॥

करञ्जं गृञ्जनीपथ्या काननाम्रश्रृते जले |

शुक्ते तक्रादिना पेया बीजवृद्धिक्षयापहाः ॥ ५९ ॥

दूर्वायाः स्वरसाढके मलयजं हीबेरकं शारिबा

मुस्ताब्जोत्पल तैलकुष्ठतगरैः शुङ्गानि च क्षीरिणाम् ।

कल्कीकृत्य पचेद् घृतं तदथवा तैलद्वयं वा समं

पीतं विश्वविसर्पकान् इरति तत्सेकेन चाभ्यङ्गतः ॥ ६० ॥ १. 'स्तद्वीतचू', २. 'कूजकुण्ठत' क. पाठः