पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

fo ईशान शिवगुरुदेवपद्धतौ बृहती फलपिष्टेन धूपो योज्यो द्विजार्तिजित् । समूलतूलं पुङ्खायाः क्वाथे तैलं पचेद् भिषक् ॥ २४ ॥ पथ्याकल्कस्य गण्डूषाद् द्विजार्तिशमनं परम् । श्यामश्च क्रमुकं धान्याम्लनालिकेराम्बुमूत्रयुक् || २५ || क्वाथः कबलितो हन्यादधिजिह्वादिकं मुखे । सिन्धुबाररसे तैलं लांङ्गलीकल्कसाघितम् ॥ २६ ॥ गलगण्डं गण्डमालां नस्यादेव विनाशयेत् । वन्ध्यकार्कोटकीमूलं पीतं तण्डुलवारिणा ॥ २७ ॥ गण्डमालाहरो लेपो गोपीतुरगगन्धियुक् । गोमूत्रामलकल्कं तु पयस्तैलघृतैर्युतम् ॥ २८ ॥ अनुष्णो बहलो लेप्यस्तत् पक्वं विद्रथिं हरेत् । बय(स्य?स्था) चन्दनोशीरैर्लेपो वा क्षीरपेषितैः ॥ २९ ॥ लिम्पेदपक्वग्रन्थींस्तु सिन्धुनाकुलिनागरैः । निर्गुण्डी कटुतुम्बिनी किणिहरी तिक्ता निशा तूलकं भृङ्गी लाङ्गलिपद्ममूलसुरसानिर्यासकास्फोटिकाः । गुञ्जाभिर्महिषीमयेन च समं तत्सर्पिषा वै समं तैलं ग्रन्थिगणान् निहन्ति सकलानालेपनाश्ध्योतनैः ॥ ३० ॥ करवीरास्थिकुटचभल्लातास्थिविलङ्गकैः ॥ ३१ ॥ कुष्ठं च तगरं लिप्तं गोमूत्रेणापचिं हरेत् । विश्वाविलङ्ककुष्ठानि सैन्धवं च सुपेषितम् ॥ ३२ ॥ गोमूत्रेणापचेिं हन्याद् ग्रन्थि चालेपमात्रतः । दन्तीहरिद्रामलकान् पिष्ट्वा तोयेन लेपयेत् ॥ ३३ ॥ त्रिफलानां कृषाये तु सितमूलासकल्कके । तैलं पचेत् तत्सेकेन नाशभति भगन्दरम् ॥ ३४ ॥ लाङ्गलीशेलुकुम्भास्थिसर्जाज्योतिष्मतीवचाः । पाठामृतार्कक्वाथे तु तत्कल्के तिलकं पचेत् ॥ ३५ ॥ १. 'बी', २. 'धुं' क. राठः ३. 'क' ख. पाठः ४. 'जं' क. पाड..