पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नानारोगचिकित्सा] पूर्वार्धे षट्चत्वारिंशः पटलः । तुत्थनागरसौ तुल्यौ तुल्यं नीलाञ्जनं तयोः ॥ १२ ॥ विकारांशेन्दुमिलितं तच्चूर्ण नयनामृतम् । कटुत्रयकरञ्जास्थिनागरं सिन्धुजं निशे ॥ १३ ॥ शङ्खबिल्वफले पिष्ट्वा वर्त्तिर्नेत्रामयापहा । समुद्रैरण्डजक्षीरं स्तन्ये पुष्पं दृशो हरेत् ॥ १४ ॥ द्रोणपुष्पाम्बु सस्तन्यं सफेनं नेत्रपुष्पहृत् । सिन्धुरात्रिकणा जातिताम्रकांस्यवराटकाः ॥ १५ ॥ कुनटी च क्षौद्रपिष्टा नेत्रपिल्लं हरन्त्यमी । शुक्तपिष्टं तु सिन्धूत्थं वस्त्रस्थं श्च्योतयेद् दृशोः ॥ १६ ॥ अभिष्यन्दहरं लोध्रमाज्यभ्रष्टं च तत् तथा । कृष्णाशकृद्रसौ कर्णमलं वा मधुनाञ्जनात् ॥ १७ ॥ द्रोणपुष्पाम्बु तैलेन निशान्ध्यं घ्नन्त्यमी त्रयः । नासिकासृक्स्रवं हन्यात् स्तन्यदूर्वाम्बुनस्यतः ॥ १८ ॥ रम्भागृञ्जनयोर्मूलं रसो वार्द्रकजः पृथक् । पूरणात् कर्णशूलघ्ना किञ्चित्सैन्धवयोजिता ॥ १९ ॥ अजामूत्रेण दध्ना च बिल्वान्तः फलसाधितम् । तैलं कर्णस्य बाघ्रिर्यपूयसावादिकं हरेत् ॥ २० ॥ वचालशुनलोणानि शिग्रुमूलं च सत्वचम् | पाण्डुर्कस्नुहिपत्राप्सु तैलं कर्णार्तिहृत् पचेत् ॥ २१ ॥ सूर्यावर्तस्य शिम्रोर्मधुपदिनकृतोः सिन्धुवारस्य जात्या रम्भायाः कारवल्ल्याः सुरस्लशुनयोः स्वे रसे तुल्यभागे । तैलं पक्वं यथावच्छूतिपुटनिहितं कर्णशूलं च पूयं बाघिर्य तद्वणं च प्रशमयति यथा भारतं पापजातम् ॥ २२ | बिल्वस्य देवदारोर्वा काष्ठं क्षौमेण वेष्टितम् । तैलसिक्तं समादीप्य ततैलं कर्णशूलहृत् ॥ २३ ॥ १. 'ल्लां'खे. पाठः. २. 'तं पल' क. पाठः ३३३