पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ प्रयोगास्त्रयो मधुनेति यावत् । लाजोत्पलं वा स्तन्येन प्रियङ्गुलोभ्रकं लिहेत् । कृष्णां समङ्गां वालोड्य ज्वरातीसारशान्तये ॥ २ ॥ निशे द्वे वत्सकं सिंही यष्टिस्तत्त्वाथसेवनात् । शिशूनामसारघ्नं तत् पिष्टं पाययेन्मनाक् ॥ ३ ॥ मधुनातिविषा लियो छर्दिज्वरहरं शिशोः । फलत्रयसहाशिग्रुदारुमेघशृतं जलम् ॥ ४ ॥ सद्राज्क्षामागधीकल्कं शिशुक्रिमिहरं भवेत् । त्रिफलाशारिबामेघनिशातापिञ्जपत्रयुक् ॥ ५॥ क्वाथो. मधुयुतः सेकान्नेत्ररोगाणि संहरेत् । खदिर: कुटजो निम्बत्रिकटुत्रिफलावर्चाः ॥ ६ ॥ गोमूत्रपिष्टाः पीताश्चेद्धन्युर्जठरजान् कृमीन् । प्रातः पूर्णाम्बुवदनो जलैराश्च्योतनं दृशोः ॥ ७ ॥ इन्दोर्बीक्षणमष्टयन्ते पाण्योर्माथाम्बु वा हितम् । तुत्थं त्रिभागमक्षान्तर्बीजमामलकस्य च ॥ ८ ॥ व्द्येकभागं जले पिष्ट्वा गुली नेत्रामयान् हरेत् । तुत्थं ताम्रमयोरजस्त्रिकटुकं नागं तथा चन्दनं सिन्धूत्थं त्रिफला च यष्टिमधुकं दार्वी च तुत्थाञ्जनम् । कर्पूरं स्फटिकं च टङ्कणमथो तिल्वं करञ्जाम्भसा पिष्टं तद्गुलिका निहन्ति तिमिरं सर्वांश्च नेत्रामयान् ॥ ९ ॥ नक्तमालफलं चैकं धावीराजिरसैः समैः ॥ १० ॥ पिष्टं छायाविशुष्कं तन्निहन्ति तिमिराम्बुदान् । त्रिफलालियष्टिशुण्ठीरसेषु मधुसर्विषोरजाक्षीरे । गोमूत्रे मुनिसंख्यं तुत्थं नागं तु नेत्रयोरमृतम् ॥ ११ ॥ १. 'घं' ख. पाठ:. २. 'इ' क. पाठः, ३. 'सूतोजैनम्' ख. पाठ 'सूताज्जनम्' क. पाठः