पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2 ² इशानशिवगुरुदेवपद्धतौ [[]] हिङ्कत्रिकटुसिन्धूत्थकुष्ठामाशैलचूर्णिकाः । ·उष्णोदके समं पीताः सद्यः शूलं हरन्ति हि ॥ १८८ ॥ लघ्वेरण्डस्य पत्राप्सु हिङ्गुसैन्धवकल्कयुक् । तैलं पचेत् तन्त्रस्येन शूलो नश्यति तत्क्षणात् ॥ १८९ ॥ कुबेराक्षिफलं कर्ष नागरं लशुनं तथा । तत्त्वाथो हिङ्गुसिन्धूत्थचूर्णयुक् सर्वशूलहा ॥ १९० ॥ हिङ्गोस्तु सैन्धवं तस्मात् तैलमेरण्डजं क्रमात् । त्रिगुणं तैः समं चाम्भो लाशुनं सर्वशुलजित् ॥ १९१ ॥ विलङ्गस्य तु सर्वाङ्गकाथः सद्धिङ्गुसैन्धवः । पीतः स्यात् सर्वशूलघ्नों न प्रकाश्यो दुरात्मनाम् ॥ १९२ ॥ नालिकेरमुखं छित्त्वा मृदाच्छाद्य तु तद् दहेत् । एरण्डबीजनिष्कं तु पिष्ट्वालोख्य तु तज्जले ॥ १९३ ॥ सोष्णमेव पिबेत् सद्यो निपतत्यश्मरी क्षणात् । रक्तापद्मार्कमूलं तु पीतमुष्णेन वारिणा ॥ १९४ ॥ पातयेदश्मरीं संद्यो मूत्रकृच्छ्रं तु नाशयेत् । मत्स्यांक्षिमूलं तक्रेण शर्करापातनं पिबेत् ॥ १९५ ॥ सर्पाक्षी वनमल्लिका च वरणापामार्गशिग्रुद्धयी · भद्रागोक्षुस्काशमर्दसुभगोश्वेतच्छदाब्जैः समैः । तुल्यैः कृष्णकुलस्थकैः शृतजलं यन्नालिकेराम्बुमत् कृष्णैलासहितं पिबेत् सहरुजा भिन्ना पतेदश्मरी ॥ १९६ ॥ जम्बूप्रवालकल्काढ्यं क्षौद्रं पीतंतु कृच्छ्रजित् । एलाकृष्णाश्वदंष्ट्राभिर्मधूकारेणुपूतिकैः ॥ १९७ ॥ अश्मभेदिपृथक्क्वाथे शिलाजतुयुतं पचेत् । तत् पिबेदश्मरीमूत्रकृच्छ्रहृच्छर्करा|पहम् ।। १९८ ॥ १. 'गावैकच्छ', २. 'ज़ि' ख. पाठः,