पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२८ ईशान शिवगुरुदेवपद्धतौ द्रोणमूलसमं विश्वासैन्धवं तक्रपाचितम् । क्रोधाग्निं जनयेत् प्रातः पीतं चारुचिनाशनम् || १६३ ॥ हिङ्गुसिन्धुकणाविश्वास्त्वेकैकं द्विगुणाभया । उष्णोदकेन पीताः स्युर्नृणां स्रंसनदीपनाः || १६४ ॥ गुलूचीं सैन्धवं पथ्यां नागरं च समांशकम् । मथिते क्वथितं पीतं कायामिबलवर्धनम् || १६५ ।। [मन्त्रपाद: भल्लातभागलघुमूलपथ्यां चैवाग्निराजीमरिचं यवानीम् । सिन्धूत्थदीप्यैः क्वथितं कदुष्णं वायोर्विकारं च कफंच हन्यात् ॥ १६६ ॥ सितासिन्धूत्थकृष्णाख्याः समांशाः लक्ष्णचूर्णिताः | सुकोष्ण सलिलेपीताः सद्यो हृद्रोगशान्तिदाः || १६७ ॥ वाराहीचित्रवाशाभिस्तण्डुलैस्तैलसाधितः । अपूपो भक्षितः सद्यो हृद्रोगशमनप्रदः ।। १६८ ।। दुःस्पर्शनागरबलाकषायः सैन्धवोत्तरः । पार्श्वशूलं च हृद्रोगमुदावर्ते च नाशयेत् || १६९ ।। क्वाथः सपिप्पलीचूर्णः पिप्पलीमूलविश्वयोः । पीतः सर्वग्रहणिकां हरेदग्निं च दीपयेत् ।। १७० ।। रजन्यौ मरिचं कुष्ठं शुण्ठिं चोष्णोदके पिबेत् । संहरेद् ग्रहणीः सर्वा दृष्टिदोषादिकं तथा ॥ १७१ ॥ पाण्योर्दाहो विलोणाम्भःपानं चापि विषूचिजित् । मुस्तोशीरकणामूलकलशीविश्वसाधितम् ॥ १७२ ॥ जम्ब्वाग्रपल्लवाभ्यां च विषूचिघ्नं पिबेज्जलम् । कटूनि पञ्चलवणं किञ्चित् स्नुहिपयोयुतम् || १७३ || सुकोष्णाम्भसि पीतं चेज्जयेद् घोरां विषूचिकाम् । पथ्या पिण्डाख्यलवणं हिङ्गुश्वातिविषा वचा ॥ १७४ ॥ पीताः सुखोदके हन्युः सहमूला विषूचिकाम् | चित्रवत्सकविश्वाम्बुरामठातिविषां पिबेत् ॥ १७५ ॥ १. 'मि' क. पाठः. १०. 'ब' ज. पाठः,