पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२६ ईशानशिवगुरुदेवपद्धतौ प्राचीनं चाप्युदीचीनं लिखेद् रेखाद्वयं द्वयम् । रखांग्रेष्वष्ट वज्राणि मध्ये तारं च तद्वहिः ॥ १३८ ॥ तारं तत्कोष्ठके लेख्यमेव हस्ततलेऽर्पितम् । दर्शितं, चामृतध्यानाच्छिरोसेगं विनाशयेत् ।। १३९ ।। ताराभान्तौ विना त्वस्मिन् चक्रे कोष्ठचतुष्टये । कोष्ठेषु यान्तसार्धेन्दुं सूर्यग्रह॑विषं लिखेत् ॥ १४० ॥ मध्ये सुपाशं क्रोडीशं चक्रस्य परितो मनुम् । अनन्तं च णिकारं च वीप्सितौ तौ पिनाकिनम् ॥ १४१ ॥ सोमेशं द्विगुणं दीर्घे णिकारं चापि वीप्सयेत् । ठठ णेमि ठठान्तोऽयं मन्त्रो लेख्यः प्रदक्षिणम् ॥ १४२ ॥ इष्ट्वा दत्त्वा बलिं बद्धं शिरोरोगं विनाशयेत् । वाताच्छिरोरुङ् नात्युष्णोत् पित्तादत्युष्णकोपनात् ॥ १४३ ॥ कफाद् गुरुत्वं शिरसस्तत् सर्व सान्निपातिके । सूर्यावर्तशिरोरोगः पूर्वाह्वे चातिवर्धते ॥ १४४ ॥ क्षयं यात्येपराह्वे तु कफवातभवस्तु सः । अर्धावभेदः शीर्णोऽर्घे शङ्खकः शङ्खवेदनः ॥ १४५ ॥ [मन्त्रपादः तौ च वाताश्रयौ । कुलस्थमाषमुद्गांस्तु पिबेदाज्येन वातिके । शिरोरोगे शङ्खके च लिम्पेदाज्येन तत्रयम् ॥ १४६ ॥ धात्रीवचामलयजं च बलार्जलाजकर्पूरयष्टिहिरिबेरमुशीरकं च । सर्वे समं दृषदि तण्डुलतोयपिष्टं लिम्पेच्छिरस्य खिलशीर्षरुजां शमार्थम् || चिञ्चाफलं पुराणं तु शर्करानागरान्वितम् । तण्डुलाम्बुयुतं नस्यान्नश्येदेव शिरोरुजा || १४८ || दुर्वामूलनिशोशीरयष्टीमधुकचन्दनैः । नन्द्यावर्ताङ्कुरसमैः पिष्ट्वा तोयेन तद्रसः ।। १४९ ॥ १. 'हे' क. पाठ:. २. 'तु' ग. पाठ:. ३ 'जेठबा', ४.. 'बद्ध्या व', 'ष्णापि' ख. पाठः. ६. 'दा' क. पाठः