पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्वरादिचिकित्सा] पूर्वार्धे पञ्चचत्वारिंशः पटलः । रक्तापामार्गशिफया तक्रे नागबलां पिबेत् । शृङ्गाम्भसा शिरोऽभ्यज्य जिघ्रेच्चाप्यज्झटां सदा ॥ १२६ ।। कामिला गच्छति । प्रमेहश्च । छिन्नामधूकत्रिफलानिम्बैः क्वाथं मधुप्लुतम् । पीतं. तत्कामिलां हन्यादनम्ललवणाशनात् ॥ १२७ ॥ लवणाम्लं च घर्मोष्णं वर्जयेत् कामिलातुरः । शिलाजतु पशोर्मूत्रैः कुम्भकामिलकाहरम् ॥ १२८ ॥ यदा चिकित्सा न कृता कामिला पाण्डुरोगताम् । `प्रयाति तत्प्रतीकारः किञ्चिदत्र प्रदृश्यते ॥ १२९ ॥ तिक्ता फलत्रयं वाशा छिन्ना भूनिम्बनिम्बयुक् । क्वाथो मधुप्लुतो हन्ति पाण्डुरोगं च कामिलाम् ॥ १३० ॥ विश्वादीप्यकसिन्धूत्थभृङ्गपथ्याश्च चित्रकम् | भूकदम्बं च तक्रेण पाययेत् पाण्डुरोगहृत् || १३१ ॥ पुनर्नवशिफापथ्याभृङ्गनागरदीप्यकाः । बलातिनलचित्रं च बदरी चन्दनं समाः ॥ १३२ ॥ तैर्भावितं समं किट्टमायसं मथिते पिबेत् । अनम्ललवणं प्राश्नन् पञ्च पाण्डुगदान् हरेत् ॥ १३३ ।। विश्वाबलाभृङ्गतिलचित्रकिट्टानि वा पिबेत् । भृङ्गाणि तिलतक्राणि पिबेद् वा पाण्डुरोगजित् || १३४ ॥ बन्धूकवाशाछिन्नानां कषायो मधुना जयेत् । रक्तपित्तं समधु वा छिन्नया साधितं जलम् ॥ १३५॥ . समूलमुत्पलं द्राक्षा कदली पद्मकेसरम् । वटप्ररोहशुङ्गानि काष्मरीसारयष्टयः ॥ १३६ ।। एतेषां समभागानां क्वाथं समधुशर्करम् । निद्रोत्थितः पिबेत् काल्यं रक्तपित्तं विनश्यति ॥ १३७॥ प्रमेहश्च ३.२५