पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्वरादिचिकित्सा ] पूर्वार्धे पञ्चचत्वारिंशः पटलः ।. सहदेवां वचोपेतां धूपयेद् विषमज्वरे । कपिलाज्यसहाधूपान्नाशयेद् विषमज्वरम् ॥ १०४ ॥ छिनानिदिग्धिकाविश्वाकाथं कृष्णान्वितं पिबेत् । पीनसार्दितकश्वासारुच्य जीर्णज्वरान् हरेत् ॥ १०५ ॥ छिन्नाकाषाये तत्कल्के सिद्धमाज्यं ज्वरं जयेत् । भ्रूबिम्बस्य त्रिभिर्भागै रेखे प्रागुत्तरायते ॥ १०६ ॥ मध्ये पञ्चदलाब्जेऽन्त्ये नामयुक्ताक्षिबाह्यतः । बिम्बाद् बहिश्चतुर्दिक्षु श्रीकण्ठं चान्तसश्रिषु ॥ १०७ ।। साक्षमन्त्यं चितामष्या लिखित्वार्कैस्तदर्चयेत् । बलिं च दत्त्वा सन्ध्यायां कलयेच्छ्वासशान्तये ॥ १०८ ॥ किन्नरकिंपुरुषगरुडगन्धर्वयक्षराक्षसनिःश्वासोपद्रवं हर पितृपिशाचाय ठठ | भूगृहावस्थवज्रस्य मध्ये नाम लिखेन्मनुम् । वज्रस्य परितोऽभ्यर्च्य घृतं श्वासविनाशनम् ॥ १०९ ॥ भुक्तोच्छिष्टान्नममुना दद्याच्छ्वासहृदश्नतः । कृष्णारम्भाफलं मूत्रे गवां संशृत्य भक्षयेत् ।। ११० ।। श्वासवान् मार्गिकां यष्टिं क्षौद्रे लीढ़| तु तं हरेत् । कुसुमं साप्तपर्ण तु मस्तुना श्वासहृत् पिबेत् ॥ १११ ॥ बदरफलमात्रमेव । विश्वापथ्याब्दचूर्ण तु गुलेन गुलुकीकृतम् । धारयेद् वदने तीक्ष्णकासश्वासहरं परम् ॥ ११२ ॥ विश्वाकृष्णानिशाव्योषचूर्णं तैले गुलान्वितम् । प्रातः प्रातर्लिंहेत् सद्यः कासश्वासहरम् || ११३ ॥ विश्वैलागैरिकाव्योषचूर्ण मध्याज्यमिश्रितम् । लिहेच्छासहरं प्रातः पटस्य वचनं यथा ॥ ११४ ॥ कृष्णा पथ्या श्रृङ्गिबेरराजा कर्कटश्रृङ्गिका | साञ्जना मधुना लीढाः पञ्चहिक्काहराः स्मृताः ॥ ११५ ॥ 'काशिका' ख. पाठः.