एतत् पृष्ठम् परिष्कृतम् अस्ति
________________
३२२ ईशानशिवगुरुदेवपद्धतौ विलङ्गविश्वाबिल्वाब्दसुरदारुशृतं तु वा । किञ्चिन्मधूत्तरमिति यावत् । निशाब्दस्त्रिफला तिक्ता पटोलीपिचुमन्दकौ ॥ ९३ ॥
देवदारुः कण्टकारीपिप्पलीमूलकैः श्रुतः ।
डुण्डुकद्वयसंयुक्तः सन्निपातज्वरापहः ॥ ९४ ॥ तिक्ताश्लेष्माब्दमरिच भूनिम्बारिष्टवत्सकैः । छिन्नापटोलपाठाभिः क्वाथः सर्वज्वरापहः ॥ ९५ ॥
श्वासातुरो निपतितो नातिशीतोष्णवान् ज्वरी । भ्रान्तदृष्टिः प्रलापी चाप्यभिन्यासातुरो नरः ॥ ९६ ॥ सिन्धूत्थहस्तिपिप्पल्यौ मधुकास्थिवचोषणैः । पाननस्यानैर्हन्यादभिन्यासं तु सन्ध्ययोः ॥ ९७ ॥ 'व्याघ्री मृणाल भूनिम्बभोर्गीदुःस्पर्श साधितः । - कषायो हन्त्यभिन्यासं व्योषोग्राभार्गिकैः श्रृतः।।98।। धात्रीकुस्तुम्बुरुच्छिन्नाचन्दनैः कथितं जलम् । सिताक्षौद्रयुतं पेयं कफवातज्वरापहम् ।। ९९ ।।
हिक्काश्वासकासगलग्रहशोषप्रमोहांश्च हरीत । ९८ ॥ छिन्नापथ्या नागरांशैस्त्रिद्व्ये कैस्तु श्रृतं जलम् | सगुलं वायुसङ्गं च ज्वराजीर्णे च नाशयेत् ॥ १०० ॥
छिन्नापटोलत्रिफलाघनैर्निम्बशलाकया ।
धाम्याकैश्च समैः काथः सर्वज्वरविनाशनः ॥ १०१ ॥
वाशा देवद्रुमो धात्री पथ्यावर्ती च नागरम् ।
सितामधुयुतः क्वाथो ज्वरं चातुर्थिकं हरेत् ॥ १०२ ॥
गुले वदरमात्रे तु क्षिप्त्वैकं मक्कुणं असेत् । ज्वरश्चातुर्थिकश्चापि व्द्यहिकश्व विनश्यति ॥ १०३ ॥
१. 'भानु' स्व. पाठ: १. 'भ' क, पाठः [मन्त्रपादः