पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३२० ईशान शिवगुरुदेवपद्धतौ तिन्त्रिणीवेष्टितं चूडाफलं शिरसि धारयेत् ॥ ६७ ॥ चातुर्थिकं हरेन्नो चेद् भृङ्गगुञ्जाभ्रकैः समैः । सतैलं धूपयेद् वस्त्रच्छन्नं नश्यति से ज्वरः || ६८ || तक्रे घृते वा पिबतु वन्दाकं बिल्वसंभवम् । विषमज्वरनाशाय दानादीनपि कारयेत् || ६९ ।। प्राचीनोदीच्यरेखाभिर्नवभिर्विषकोष्ठके ! रेखाग्रतत्त्वशूले तु कोष्ठेषु वृतिषु क्षितौ ॥ ७० ॥ हारनीरप्रियाभानुसङ्ख्येषु क्रमशो लिखेत् । वाय्वाद्यर्णान् कृष्णरक्तपीतशुकान् सबिन्दुकान् ॥ ७१ ॥ १. 'न' [मन्त्रपाद: इष्ट्वा जपित्वा तस्मिंस्तु शयीत ज्वरशान्तये । आख्याविदर्भ खं कुम्भे लिखेन्मध्ये तु तद्वलिः ॥ ७२ ॥ सार्काशाष्टदलाम्भोज बाह्ये त्रिंशद्दलाम्बुजम् । काद्यैः शान्ताक्षरैर्युक्तं तद्वाह्ये जरुमण्डलम् || ७३ |॥ यन्त्र सञ्जीवनमिदं सर्वरक्षोज्वरापहम् । मृत्युञ्जयपुटस्थं स्यान्नामजीवविदर्भितम् ॥ ७४ || अन्त्यावृतं ततो वृत्तमाच्छायाष्टदलेष्वपि । मृत्युञ्जयपुटं बाह्ये षोडशच्छदनाम्बुजे || ७५ || मृत्युञ्जयपुटेप्वाख्या बाह्येऽब्जं रार्गेपत्रकम् । काद्याः सदलगा: सान्ता बहिः शक्त्या वृतं तमः ।। ७६ ।। माबीजेन त्रिधावेष्टय यन्त्रं मृत्युञ्जयाह्वयम् । विश्वरोगग्रहार्तींनां शमनं शिरसा धृतम् ॥ ७७ ॥ · चतुरश्रस्य कोणेषु तारं शक्तिश्च मध्यगा । शक्तौ नाम च तद् यन्त्रं ज्वरा भासविनाशनम् ॥ ७८ ॥ शक्तौ नाम लिखेद् बाह्ये वसुपत्राम्बुजस्य तु । केसरेषु स्वरान् कादिवर्गान् सप्तद्लेष्वपि ॥ ७९ ॥ ५. 'मं' ख. पाठः.