पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्वरादिचिकित्सा] पूर्वार्धे पञ्चचत्वारिंशः पटलः । बुद्धाधिदैवतो मन्त्रो ह्यस्य प्रकृतिजापतः । पृथग् गुल्गुलुदाहेन ज्वरो नश्यति धूपतः ।। ५६ ।। वृत्ते स्वरावृते कुम्भो भूगृहे ज्वरहा धृतः । साध्यनामयुक्तः । योऽसौ सरस्वतीतीरे अपुत्रो ब्राह्मणो मृतः ॥ ५७ ॥ तस्मै तिलोदकं दद्यान्मुञ्चेदैकाहिको ज्वरः । प्रातरञ्जलिनानेन सकुशेन तिलोदकैः ॥ ५८ ॥ • सरक्तपुष्पं सन्तर्प्य निर्यात्यै काहिको ज्वरः । सप्तकर्कटवेश्मोत्थमृदा शौचावशिष्टया ॥ ५९ ॥ कुर्यात् त्रिवासरं पुण्डूमेकान्तरविनाशनम् । प्राचीना वसुरेखाः स्युः षड्रेखाश्चाप्युदङ्मुखाः ॥ ६० ॥ बाह्यविंशतिकोष्ठेऽन्त्यराजिष्वन्तर्भुवोऽक्षरम् । साध्यनामावशिष्टेषु रेखामेषु त्रिशूलयुक् ।। ६१ ।। यन्त्रं लिखित्वा संपूज्य पञ्चवर्णोदनैर्बलिम् । बध्ये चातुर्थिकश्चैव ज्वराभासश्च नश्यति ॥ १२ ॥ तारामियुक्तं पार्श्वभूमध्याभिसन्धिषु । विन्यस्य साध्यं शार्दूलं स्मृत्वा स्पृष्ट्वा च तत्त्वचः ॥ ६३ ॥ त्रिष्कृत्वस्तु हरेच्छुक्लमवर्माङ्गं च तं स्मरेत् । ज्वरागमनारेषु चतुर्थ्यज्वरशान्तये ॥ ६४ ॥ दक्षिणोदङ्मुखं लेख्यं षट्कोणं मध्यतारकम् । तारस्य पार्श्वयोर्मीसं कोणेष्वग्निं च तद्वहिः ॥ ६५ ॥ कोणसन्धिष्वङ्कुशान् षड् लिखित्वाभ्यर्च्य तारकम् । पाशाङ्कुशौ च प्रजपेत् सर्वज्वरहरं धृतम् || ६६ || हृदयान्ते भगवते पुद्राशबन्ध ज्वर हुं फट् ठठ । अनेन सप्तकृत्वस्तु शिखा बन्धाज्ज्वरक्षयः | ज्वरो बद्धो भवति । १. 'यु' ग. पाठः