पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१८ ईशान शिवगुरुदेवपद्धतौ ध्यात्वा कपालं तं चेष्ट्वा जपित्वाष्टशतं मनुम् | ओं हृद् ब्रह्मा पार्श्वभूबीजो दीर्घो वायुर्विषं चहा ॥ ४९ ॥ मुद्रा यक्ष पालय हुं फट् ठठ । अनेन साध्यं नीराज्य स्थापयेत् तच्चतुष्पथे । कुबेराधेन मन्त्रेण प्रोक्ताङ्गैः क्षीरसेचितैः ।। ५० ।। आम्रपर्णेदेशशतैर्जुहुयाज्ज्वरशान्तये । ओं कुबेरं ते मुखं रुद्रं नन्दीमानन्दिमावह ॥ ५१ ॥ ज्वरं मृत्युं भयं घोरं ज्वरं नाशयते ज्वरम् । औं स्वाहा । कुबेरादिमन्त्रः । [मन्त्रपाद: इक्षोर्मूले श्वेतपद्मे निविष्टः पद्मं बिभ्रच्छूलटङ्कौ कप|लम् | शुक्लाकल्पः स त्रिणेत्रः कृशाङ्गो भूतिश्वेतः सत्कपर्दो ज्वरः स्यात् ।। ५२ ॥ एवंविधं महेश्वरज्वरं ध्वात्वेष्ट्वामुं मन्त्रं जपेत् | तारं च हृद्भगवते पुद्राश रुद्रज्वैर कृतान्तरूपाय ह्रां ह्रीं ह्रुं फट् । रुद्रोऽस्य देवताङ्गानि स्वार्णैर्जातिविभाजितैः || ५३ ॥ शुद्धो निशि जपेल्लक्षं ज्वरं ध्यात्वा तु सिध्यति । साध्यं क्षीरार्णवे पद्मे चन्द्रमण्डलमध्यगम् ॥ ५४ ॥ अन्वारभ्य जपेद् ध्यात्वा ज्वरमोक्षो भविष्यति । ओं भस्मा (शुढाश ? युधाय) विद्महे | एकदंष्ट्राय धीमहे । तन्नो ज्वरः प्रचोदयात् । इयं ज्वरगायत्री । अनया जपितं भस्म विकिरेज्ज्वरशान्तये || ५५ ।। नमो षरलत्र शाशं हृदयमावर्तयिष्यामि । भो भो ज्वर शृणु हन गर्व छर्द सर्वज्वर चट वज्रपाणिराज्ञापयति । शिरो मुञ्चं कण्ठं मुञ्च उरों मुञ्च हृदयं मुश्च उदरं मुञ्च कटिं मुञ्च जङ्घे मुचे पादौ मुञ्च चण्डपाणिराज्ञापयति हुं फट् ठठ | १. 'र' ग. पाठः २. 'ज' क. स. पाट. ३. '२:' ग. पाठः ‘श्व', ६. 'गु', ७. ‘प' ग. पाठ:. ८. 'चउ' ख. पा. ९. 'सा' या. पाटः. 'च' क. पाठः.