पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ज्वरादिचिकित्सा] पूर्वार्धे पञ्चचत्वारिंशः पटलः । तेषामादौ तु रोगाणां दानैर्मन्त्रैस्तथा हुतैः । बलिभिर्देवतेज्याभिः प्रतीकारो विधीयते ॥ ४१ ॥ उग्रं त्रिणेत्रं भसितावदातं भस्मायुधं वामवरप्रदानम् । आताश्रमाल्यादिकमेकदंष्ट्रं ध्यायेज्ज्वरं पिङ्गजटाकिंरीटम् ॥ ४२ ॥ ओ लर्वज्वषपूटाश नमः । अस्याङ्गानि स्वयं पञ्च देवता च ज्वरः स्वयम् । पङ्क्तिश्छन्दो मुनिर्व्यासः कुर्याच्चानेन तर्पणम् ४३ ॥ ओं ज्वरं तर्पयामि । ओं शीतज्वरं तर्पयामि । ओं वातज्वरं तर्प- यामि | ओं पित्तज्वरं तर्पयामि ।ओं श्लेष्मज्वरं तर्पयामि | ओं सान्निपातज्वरं तर्पयामि । औं शिरोरोगज्वरं तर्पयामि । ओं महाज्वरं तर्पयामि । ओं सर्व- । · ज्वरं तर्पयामि । ओं सर्वज्वरपार्षदांस्तर्पयामि । । इक्षु॑मूले पद्मपीठे ध्यात्वा सन्तं ज्वरं विभुम् । लाजसक्तुविमिश्राद्भिः सन्ध्यारात्रिषु तर्पयेत् ॥ ४४ ।। क्षिप्त्वा शूलबलिं चैव तर्पणाम्भश्च पात्रगम् | आम्रमूले तु विसृजेत् त्रिदिनज्वरशान्तये ॥ ४५ ॥ ओं हृदयान्ते भगवते त्रियूँसाशां प्रतिहताय हुं फट् खेक्ष । पिशाच- मध्या विश हुं फट् ठठ । ' प्रस्थान्नपिण्डं कांस्ये तु निधायाज्यदधिप्लुतम् । तस्मिन् मन्त्रेण शूलाख्यँमावाह्येष्ट्वाक्षतं जपेत्।।46।। ग. पाठः, दीपिकात्रितयं पिण्डे शूलाकारं तु विन्यसेत् । तेन नीराजयेत् साभ्यं रोगक्षुद्रग्रहापहम् ॥ ४७ || शूलबलिप्रसङ्गेन कपालबलिश्च कथ्यते ।

१. 'मनः', २. 'गंत' क. पाठ:. ५. 'यूशी' क. पाठः• ६. नवं शरावमापूर्य रक्तोदेनाढकोचितम् । तन्मध्ये पिष्टजे दीपे ज्वालयेद् द्वादशाङ्गुले || ४८ || ३. .ख. पाठः ४. 'अमूले घ्या' क. ख. पाठ:. ७. 'ख्या' क. पाठः,