पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३१६ ईशान शिवगुरुदेवपद्धतौ श्लेष्मपित्ताच्चाभिघातादित्युक्तोऽष्टविधोज्वरः। जृम्भिकाशीतकम्पाश्च कटचूर्वादिशिरोरुजा |॥ २८ ॥ ज्वरः । तिक्तास्यता तृषा कासो नेत्राणि च वातिके । दाहमूर्छाप्रलापाश्च छर्द्यतीसारकभ्रमाः ।। २९ ।। अतिदाहो ज्वरस्तृष्णा पैत्तिकज्वरलक्षणम् । शीतोद्गमश्च विष्टम्भः स्तैमित्यं मधुरास्यता ॥ ३० ॥ हृल्लासमोहौ शीतं च कफज्वरगुणास्त्वमी । असङ्गतप्रलापित्वं तृण्मूर्छाकूजनभ्रमाः ॥ ३१ ॥ पित्तास्रवमनं जिह्वाकार्कश्यं सान्निपातिके । शिरोरुग्वमनं दाहो मोहः कण्ठस्य शुष्कता ॥ ३२ ॥ जृम्भरोमाश्चतोदाश्च सन्धींनां वातपित्तजे । कासपीनसविड्बन्धा भ्रमसन्धिशिरोरुजाः || ३३ ॥ वमनं श्लेष्मणो जाड्यं लिङ्गानि श्लेष्मवातजे । स्तम्भोऽङ्गानां तथा स्वेदो वमनं श्लेष्मपित्तयोः ॥ ३४ ॥ तिक्तास्यता च लिङ्गानि कफपित्तज्वरस्य वै । अर्थपुत्रादिनाशाद् वा मन्त्रदेवादिशापतः ।। ३५ || अजीर्णादथवा क्षुद्रादभिंघातज्वरो भवेत् । स एव वातसंश्लेषादन्यो वा विषमज्वरः || ३६ ॥ . स सर्वदा वा रात्रौ वा दिवा वा विषमज्वरः । कालातिमातेनार्वाग् वा नियमो नास्य विद्यते ॥ ३७ ॥ एकाहो नित्यनियमाद् द्वैहिको नियमान्तरः । दिनद्वयमतीत्यायं ज्वरश्चातुर्थिको(?) मतः ॥ ३८ ॥ विषमज्वर एवैभिर्नामभिः पृथगीरितः । वातिकाद्याश्चिकित्साभिर्दानैर्देवद्विजार्चनात् || ३९ || मन्त्रयन्त्रजपैर्होमैर्गच्छन्ति विषमज्वराः । शीतज्वरा वैष्णवाः स्वरुष्णा माहेश्वरज्वराः ॥ ४० ॥ १. 'क्ल', २. 'सिद्धीनां' ख. पा०:. [ मन्त्रपाद: