पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ईशान शिवगुरुदेवपद्धतौ सप्ताहं न्यस्तमुद्धृत्य लिप्तमुन्मादशान्तिकृत् । मधूकं च कणा यष्टिमृद्विकामुस्तशारिबाः ॥ ३ ॥ कर्पूरचन्दनं सर्प स्तन्येक्षुरसशर्कराः । ॥ ६ ॥ पिष्टा नसि कृता हन्युरुन्मादानि नवान्यमी ॥ ४ ॥ कुष्ठहिङ्गुवचायष्टिशिरीषलशुनेन तैः । नस्याञ्जनं साजमूत्रैः पानं च भ्रान्तिनाशनम् ॥ ५॥ शिवस्कन्दार्यनिर्माल्यनिर्माल्याज्यं च गुग्गुलु | वचाजरोमगोपुच्छरोमनिम्बाश्विपुत्रयुक् राजीहिङ्गुयुतं धूपास्त्रिसन्ध्यं ग्रहनाशनाः | मयूर पित्तगोशृङ्गकुकुटाण्डबिलालविट् ॥ ७ ॥ वचाजरोमोन्मत्तानि मातुलास्थि कटुत्रयम् । राजीनिम्बदलैर्हिङ्गयुक्तैर्धूपो ग्रहापहः ॥ ८ ॥ गोमूत्रोषणसिन्धूत्थकपित्थशिफया कणा । ग्रस्ताक्ष्णोरञ्जनाद्धन्यादुन्मादांश्च ग्रहानपि ॥ ९ ॥ वन्ध्यकार्कोटकीमूलं हिङ्गु च नृजलोक्षितम् । शुष्कं गुलीकृतं हन्यादञ्जनाद् सविषग्रहान् ॥ १० ॥ रसोननिम्बपत्रा स्थिलेपान्मुञ्चति तद्ब्रहः । मातृहाभूतवृक्षाभ्यां नस्यालेपौ ग्रहापहौ ॥ ११ ॥ शिरीषहिङ्गुलशुनमञ्जिष्ठाबकयष्टिभिः । व चाकुष्ठगुलीनस्यादञ्जनाच्च ग्रहान् हरेत् ॥ १२ ॥ व्योषहिङ्गुनिशादारुशिरीषलशुनैर्वचा । करञ्जबीजमञ्जिष्ठाकदलीमूलकलकतः ॥ १३ रम्भाम्भसा च गोमूत्रकथिताज्यं ग्रहापहम् । पानादिनेति यावत् । १. ब्रह्मदण्डीं च मुण्डीं च कुमारीमिन्द्रवारुणम् ॥ १४ ॥ प्रिष्ट्वा नृमूत्रे नस्येन ग्रहोन्मादविनाशनम् । 'बि' ख. पाठः. [मनपादः